________________
परमाणोः स्कन्धस्य च स्वरूपम् ।
· २३ इति वचनात् सत्वेन प्रतिमासे' परमाणुत्वेनापि प्रतिभाता एव 'ते। केवलं तथानिश्चया36A भावात् तद्रूपाप्रतिभासनमुच्यते । अनुभवो हि यथाविकल्पाभ्यासं निश्चयपत्ययं जनयति,
यथा रूपदर्शनाविशेषेऽपि कुणप-कामिनी-भक्ष्यविकल्पाः । बुद्धिपाटवं तद्वासनाभ्यासः प्रकरणमित्यादयश्वानुभवाद् भेद निश्रयोत्पत्तिसहकारिणः । न च विकल्पानुत्पादै तद् गृहीतभिति व्यवस्थापयितुं शक्यम् , यतो "येव जनयेदेनां तत्रैवास्य प्रमाणता" 5 [ ] भवतीति ।
कैथमेवं सति सत्त्वादणुत्वस्य भेदो न भवति, विरुद्वधर्माध्यासात् , कुम्भाम्भो36B रुहवत् ? यदि पुनर्निश्चयस्यावस्तुविषयत्वान्न तद्भावाभावाभ्यां वस्तुस्वभावभेद इति मतं
तदा कथं तैर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्यनुत्पत्तिभ्याम् ? विपर्ययोपजननानुपजननाभ्यामपि तव्यवस्थानुषङ्गात् । निश्चय एवं प्रामाण्यहेतुर्दृष्टाध्यवसायित्वात् , न 10 विपर्ययः संशयो वा तद्विपरीतत्वादिति चेत् । ननु स्वलक्षणानालम्बनश्च निश्चयो दृष्टार्थाध्यवसायी चेति व्याहतमेतत् । ततः स्वलक्षणाध्यवसायात् स्वलक्षणालम्बन एवेति वस्तु
विषयो निश्चयोऽन्यथाऽनुपपच्या सिद्धः । तथा च तद्भावाभावाभ्यां वस्तुस्वभावभेदोऽवश्यं37A भावीति परमाणुत्व-सच्चयोर्भेदः प्राप्तः, न चैवमिष्यते ।
तत परमाणुवेनाऽप्रतिभाता: परमाणवः सवेनाप्य प्रतिभाता एव । न चाप्रतिभाता: 15 स्थवीयांसमाकारं दर्शयितुमीशते, अतिप्रसङ्गात् , इति परमाणू नामतीन्द्रियत्वात् स्थूलस्कन्धस्य चानभ्युपगमात् पदार्थाग्रहण समानमेव । अस्माकं च यदेवाऽवयवग्रहणं तदेवावयविग्रहणं यदेवावय विग्रहणं तदेवावयत्रग्रहणं परस्परं कथञ्चिदभेदादिति पूर्वापरग्रहणप्रश्नावकाश एव नास्ति । न च परमाणूना सर्वथाऽप्यतीन्द्रियत्वमेव, परिणतिविशेषभृतामेन्द्रियकत्वात् । परिणतिविशेष एव च स्कन्ध उच्यत इति द्रव्यमेन्द्रियकमेव । 20 तस्मात् परमाणुमङ्घातभेदजो द्वयणुकादिः सांशः उद्धृताध्यक्षत्वश्चन्द्रियकः स्कन्धः ।
एकत्वपरिणामोन्मुख्यप्रकर्षपर्यन्तः संघातः । स याद्यधिकगुणेन स्निग्धस्य रूक्षस्य वा । विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य । अधिकगुणः परिणमकः, समगुणः परिणम्योऽपि । भेदो विश्लेषपरिणामः । .. १ बुद्धिौ ॥२ परमाणवः ।। ३ परमाणुत्वा(त्व)निश्च ॥ * अत्र यथाश्रुते 'परमाणुत्वानिश्चयात्' इति विवक्षा ज्ञेया । अस्मत्कल्पितपाठानुसारेण 'परमाणुत्वनिश्चयाभावात्' इति विवक्षा ज्ञेया ॥ ४ निर्विकल्पकं प्रत्यक्षम् ।। ५ यस्मात् ।। ६ चिकल्पाभ्यासस्यानतिक्रमेण || ७विकल्पबुदिम् ।। ८ प्रस्तावः ।। ९ अंशे ।। १० विकल्पबुद्धिम् ।। ११ उत्तरम् ॥ १२ गृहीतागृहीतयोर्विरोधात सत्व-परमाणत्वयोः ॥ १३ निर्विकल्पकस्य ॥ १४ विपर्ययस्य विकल्पस्य च भ्रान्तत्त्वाविशेषात् ॥ १५ दृष्टाध्यवसाथित्वाभावात् ॥ १६ विकल्प: स्वलक्षणालम्बनः [अन्यथा] 30 स्वलक्षणाध्यवसायानुपपत्तेः ॥ १७ निश्रय ।। १८ '५' तस्मात् ] ।। १९ परमाणुल्व-सत्त्वयोरभेदात् त्वन्मते ।।
25
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org