________________
રર
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे एवं स्पार्शनत्वाद्यप्यवयविनो द्रष्टव्यम् , स्पर्श-रस-गन्धेभ्यः कथश्चिदभेदात् तत्प्रत्यक्षत्वे 34B तस्याति प्राण वात् । न चास्माकं पार्शनं दार्शनमेव वा द्रव्यमिति नियमः, स्पादि.
रहिनस्य द्रव्यस्य द्रव्यरहिताना स्पर्शादीनां च प्रत्यक्षाविषयत्वात् , द्रव्याणामेवाऽसत्रपर्यायाणां मति-श्रुतयोविषयत्वव्यवस्थापनात् । यदुक्तम्
"मति-श्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु" [तवार्थ० ११२७] इति । 5 तस्माच्चाक्षुषत्ववदवयविनः स्पार्शनत्वाद्यप्यस्ति, अभेदस्य सर्वत्रापि तुल्यत्वात् ।
स्यादेवम्-स्कन्धस्य ग्रहणं यदि स्वावयवग्रहणपूर्वकं तदाऽन्तशः परमाणूनां तदवयवा35A नामतीन्द्रियत्वादग्रहणेन स्कन्धाऽग्रहणं स्यात् । अथ स्वावयवाऽग्रहणपूर्वकं तदा प्रपदीन
कञ्चुककवचिताशेषावयवस्याप्यवय विनो ग्रहणं स्यात् । कतिपयावयवग्रहणपूर्वकेऽपि स्कन्धग्रहणे सर्वाग्रहणमेव, कतिपयावयवानामप्यन्तशः परमाणूनां व्यवस्थानात् तेषां च ग्रहणा- 10 सम्भवात् । तत: परमार्थतो न स्कन्धः सिध्यति । अनाद्यविद्यावशात्तु एकत्वपरिणामपङ्कापङ्किलेषु परमाणुष्वेव तदाकारप्रत्ययोऽविरलचिहुँरेषु धनप्रत्ययवदिति । तन्न । ट्रेव्यानभ्यु
पगमपक्षेऽपि वस्त्वग्रहणस्य तुल्यत्वात् , परमाणूनामतीन्द्रियत्वात् ।। 358 परमाणूनामेव स कोऽपि विशिष्टः क्षणः प्रादुरस्ति यो मांसचक्षुषामपीन्द्रिय विषयो
भवतीति चेत् , न, कदाचित् क्वचित् कस्यचित् परमाणुप्रतीत्यीवात् । एक एव हि 15 स्थवीयानाकारः परिस्फुटमवायधिणायामनुभूयते, नापरं किश्चित् । परमाणव एव तमाकारमसन्तमेवोपदर्शयन्तीति चेत् , ननु ते स्वयमप्रतिमाताः कथं तमाकारमुपदर्शयेयुः, सर्वस्य तदुपदर्शनप्रसङ्गात् । सत्यादिना प्रतिभाता एव त इति चेत् । न । परमाणुत्वेनापि तेषां प्रतिमातत्वप्रसङ्गात् । स्थान्मतम्
20 " एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥" [ प्रमाणवातिके ३।४२ ]
१ द्रव्यस्यापि ।। २ सावयवानां ग्रहणेऽवयवी गृह्यते अग्रहणे वा, विकल्पद्वयी ॥ ३ अवयविनः ॥ ४ सर्वस्य स्कन्धस्याग्रहणमेव ।। ५ ननु यदि स्कन्धो नास्ति तदा कथं घोऽयं पटोऽयमिति समुदिताकारः प्रत्यय इत्याशङ्कायां पर एवाह ! ६ एकत्वाकार || ७ * " केशाः....."चिकुराः ...."चिहुरास्तु प्राकृते 25 कस्य हादेशात् , संस्कृतेऽपीति दुर्गः, यदाह-“कुन्तला मूर्धजास्त्वनाश्चिकुराश्चिहुराः [ ] इति ।" इति अभिधानचिन्तामणिनाममाला[ श्लो० ५६७]स्वोपक्षवृत्तौ ।। ८ निबिडप्रत्ययोऽनाद्यविद्यावशो यथा ।। ९ अवयविद्रव्या ।। १० सर्वज्ञ मुक्त्वाऽन्यस्य कस्यचित् ॥ ११ स्कन्धप्रतिभासस्यैव भावात् , घट एवायमित्येवं विकल्पबुद्धिर्जायते, न तु परमाणवोऽमीत्येवं विकल्पबुदिरुदेतीति ।। १२ निश्श्रयधियाम् ॥ १३ परमायादिराशेः।। १४ सत्त्वपरमाणुस्वयोरमेदादिति भावः ।। १५ परमाणूनाम् ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org