________________
परमाणोः स्कन्धस्य च स्वरूपस्य वर्णनम् । 334 घणुकं त्रयाणां व्यणुकम् । कश्चिद् भेदात् , यथा व्यणुकादेकाण्वपगमे 'यणुकं चतुर
णुकात् व्यणुकम् । तथा कश्चिद् भेद-सङ्घाताभ्याम् , यथैकस्मिन्नेव समये अणुकादेकाणुभेदेऽपरसंहनने घणुकान्तरमिति ।
तत्र भावांशानाह- चतुरिति । शीतोष्ण स्निग्धरूक्षाश्चत्वार एव सूक्ष्मपरिणामपुद्गलनिष्पाद्यानां स्कन्धानाम् , नान्ये कठिनतादयः, सर्वपरमाणुष्वप्येष एवं न्यायः । बादर- 5 परिणामपुद्गलनिष्पाद्यानां तु चतुरूवं यथासम्भवमंशभेदेनाऽटापि भवन्ति, सुक्ष्मस्थायिनस्तु चत्वारो भवन्त्येव । सुक्ष्मेषु पुनरेषामपि न नियमः । वर्ण-रस-गन्धाः पुन: सूक्ष्मेषु चाँदरेषु चैकाद्या अपि सम्भवन्तीति ।
क: पुन: स्कन्धश्छद्मस्थेन्द्रियग्राह्यो भवतीत्याह- "उद्भूतं छद्मस्थेन्द्रियग्रहणयोग्य. मध्यक्षत्वं प्रत्यक्षत्वं यस्य स तथाभूतः स्कन्ध ऐन्द्रियको भवति, इन्द्रिय गुह्यते "क्वचित् " 10 [सि० ६।२।१४५] इत्यणि " यावादिभ्यः" [सि० ७३।१५] इति स्वार्थे के चेन्द्रियकः, छमस्थेन्द्रियग्राह्यो भवतीत्यर्थः । अयमर्थः - सर्व एव पुद्गला इन्द्रियापेक्षा
लक्षणमुपौधिमनपेक्ष्य सर्वदा प्रत्यक्षा एव, सर्वज्ञज्ञानेन गृह्यमाणत्वात् । अन्यथा तदभाव33B प्रसङ्गः, सर्वदाऽप्यप्रत्यक्षस्य वस्तुनो जगत्यभावात् । एतावांस्तु विशेषः-निरुपाध्येवाध्य
क्षत्वं यदा केपाश्चित् पुद्गलानां सोपाध्यध्यक्षत्वरूपेण परिणमति तदा ते छद्मस्थेन्द्रियरपि 15 गृह्येन्ते । न पुनः सर्वथाऽप्यमदेवाध्यक्षत्वमुत्पद्यते, सर्वथाऽप्यसतः षष्ठभूतस्येवोत्पादायोगात् । तस्मात् सामान्यरूपेण सदध्यक्षत्वं येषु विशेषरूपतामुपैति ते स्कन्धा ऐन्द्रियका भवन्ति, अन्ये त्वतीन्द्रिया इति ।
मैनु पटादिरूपव्यतिरेकेण चक्षुर्बुद्धावप्रतिभासमानोऽवयवी कथं चाक्षुपो नाम, गन्धा"देरपि चाक्षुषत्वप्रमङ्गादिति ? । न । पटाद्यवयविन एव चक्षुर्बुद्धौ प्रतिमासनात् तद्य- 20 34A तिरेकेण रूपस्य तंत्राऽप्रतीते: गन्धादिवत् । अपि च, चक्षुर्बुद्धौ रूपं प्रतिभासते न पुन
स्तदभिन्नोऽप्यवयवीति ब्रुवाणः कथं नोन्मत्तः । न च रूपादभिन्नोऽवयवी रूपमेव भवति, एकान्ताभेदस्याप्यनभ्युपगमात् , गुणस्वात्मवद् गुणगुणिभावस्याभावप्रसङ्गात् ततो रुपावयविनोरभेदौद् रूपस्य चाक्षुषत्वेऽवयविनोऽपि चाक्षुषत्वम् । १ अंशभेदेनेति योज्यम् ॥ २ अपगमे ।। ३ चतुरष्टस्पर्श-पचरसवर्ण-द्विगन्धः ॥ ४ स्पर्शाः ॥ ५ 25 स्थूल ।। ६ स्कन्ध ।। ७ बादरेषु ।। ८ स्कं० [-स्कन्धेषु] || ९ स्कं [ स्कन्धेषु] || १० स्कं [-स्कन्धेषु ॥ ११ उदभूताध्यक्षत्वन्द्रियकः ॥ १२ विशेषण || १३ सर्व[ज्ञ ?]ज्ञानाग्रहणे ॥ १४ उपाधिरिन्द्रियलक्षणः । इन्द्रियप्रत्यक्षग्रहणयोग्यरूपेणेत्यर्थः ॥ १५ पुद्गलाः स्कन्धापन्नाः ॥ १६ बौदः ॥ १७ अप्रतिभासमानत्वाविशेषात् ॥ १८ चक्षुर्बुद्धौ ।। १९ कुतोऽनभ्युपगम इत्याह- गुणेति । यथा गुणस्य निजरूपापेक्षया न गुणगुणिभावः, एवं गुणेभ्यो गुणिन एकान्ताभेदे गुणगुणिभावो न स्यादित्यर्थः ॥ २० गुणस्य स्वस्वरूपवत् ।। 30 २१ यदि रूपमेवाक्यवी ॥ २२ एकान्ताभेदे सति ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org