________________
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे घटनात् । प्रदेशस्वभावस्तावत् तस्यास्ति, स्कन्धावस्थायां तद्भावान्यथानुपपत्तेः । प्रदेशिस्वभावश्च द्रव्यरूपत्वात् स्कन्धवत् । ननु द्रव्यत्वाद् घटवत् परमाणुरनेकद्रव्यांशवानस्तु ।
न । परमाणुत्वविरोधात् , अनेकांशवतो घटवदेव स्थूलत्वप्रसङ्गात् । 31B परमाणूनामनेकप्रदेशत्वाभावे सर्वात्मनेकदेशेन च संयोगेऽणुमात्रपिण्डप्रसङ्गात् मावय
वत्वप्रसङ्गाञ्च परमस्कन्धस्य प्रतीतिविरोधात् संप्रदेशोऽणुर्न पुनरप्रदेश इति चेत् । न । 5 सेप्रदेशस्य सर्वदाऽप्यभेद्युत्वाऽयोगात् , मूर्तस्य ह्यनेकावयवस्य घटस्येव भेत्तुं शक्यत्वात् । परमस्कन्धप्रतीत्यमावस्तु उभयत्रापि तुल्यः । प्रदेशोऽपि ह्यणोरण्वन्तरप्रदेशेरेकदेशेन यदि सम्बध्यते तदाऽसौ देशोऽवयवी परमाणुवत् स्यात् . तथा चानवस्थाऽपरापरदेशप्रकल्पनात् ।
सर्वात्मना च सम्बन्धे पिण्डोऽणुमात्र: स्यात् , सर्वप्रदेशानां परस्परात्मसु सर्वात्मनाऽनुप्रवे. 32A शात् , तथा च परमस्कन्धस्य प्रतीत्यभावः। "स्कन्धप्रतीत्यन्यथाऽनुपपन्या प्रकारान्तरेणाणुप्रदे- 10
शानां सम्बन्धे तत एव परमाणूनामपि प्रकारान्तरेण सम्बन्धोऽस्तु । तस्माद् द्रव्यांनिरंश एवाणुः ।
तत्र भावांशानाह-से पूर्व प्रसाधितसत्ताकः परमाणुयुगपदेककालम् अविरुद्धावविरोधिनी द्वौ स्पशौं यस्य स तथा । इह सूक्ष्मद्रव्यसम्बन्धिनां शीतोष्णस्निग्धरूक्षाणां चतुर्णामेव मध्यादविरुद्धौ स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीतौ द्वावेव स्पर्शी परमाणावेकदा 15 भवतः । न वयं नाप्येकः द्वयमपि न विरुद्धमित्यर्थः ।
तथाऽन्यतरेकरसादिः स इति सम्बन्धः । पञ्चविधरस-द्विविधगन्ध-पञ्चविधवणेषु मध्या328 दन्यतरोऽनिर्धारितरूपविशेष एकोऽद्वितीयो रस आदिग्रहणाद् गन्धो वर्णो वा यम्य स
तथा । यथा परमाणावेकदाऽविरुद्ध स्पर्शद्वयं भवति तथैवानिर्धारितरूप एको रसो गन्धो वर्णों वा भवति, न पुनर्विरुद्धावविरुद्धौ वा द्वावित्यर्थः ।
20 तदेवमणोः स्वरूपमभिधाय स्कन्धस्याह-तेपोमणूनां यो वक्ष्यमाणलक्षणो सङ्घातभेदौ ताभ्यां जातो घणुकादिः; 'आदि'ग्रहणात् व्यणुकप्रभृत्यनन्तानन्ताणुकपर्यन्तस्य परिग्रहः, सांशः सावयवः । विशेषानुपादानाद् भावांशेर्द्रव्यांशश्च सांशत्वम् । एवम्भूतो यः स स्कन्धः । तन्त्रेण सखातो भेदः सङ्घातभेदी च गृह्यन्ते । तत्र कश्चित् सङ्घाताद् भवति यथा द्वयोरण्वो: सङ्घाते १ भावप्रदेशवानित्यर्थः ॥ २ प्रदेशस्वभावा ॥ ३ विवादाध्यासितोऽणुः प्रदेशी, द्रव्यत्वात् , स्कन्धवत् ।। 25 ४ प्रदेशिस्वभावो भावप्रदेशवानित्यर्थः ।। ५ अत्र भावप्रदेशवत्वेन स्कन्धो दृष्टान्त इति न दृष्टान्तासिद्धिः ।। ६ स्कन्धरूपः ।। ७ अणुः स्थूलः, अनेकांशवत्त्वात् ।। ८ द्रव्यांशः ।। ९ द्रव्यांशैः ।। १० कोऽर्थः १ सप्रदेशो विनाश्य एव ।। ११ जीवव्यवच्छित्त्यै मूर्तेति ॥ १२ परः ॥ १३ नैरन्तर्येण ॥ १४ आचार्यः ।। १५ कोऽर्थः ? अणुप्रदेशानां सम्बन्धं मा मस्त, किन्तु परमाणूनामेव सम्बन्धं मनुष्य ॥ १६ स युगपदविरुद्ध द्विस्पर्शः।। १७ सूत्रम् ।। १८ परमाणुः ।। १९ तत्संघातभेदजो चणकादिः सांशः स्कन्धः ।।
30
Jain Education International 2010_05
www.jainelibrary.org
For Private & Personal Use Only