________________
.. पुद्गलभेदवर्णनम्। उभयत्र जातिमेदापेक्षं बहुवचनम् , अणु-स्कन्धाधाराणामवान्तरजातिभेदानामनन्तत्वात् । अणुस्कन्धा इति समासाकरणं स्कन्धस्थाणुविशेषणत्वशङ्कानिरासार्थम् । अन्यथा एणवो लघवः स्कन्धा इति शङ्का स्यात् । ननु ‘द्वेधाऽपि' इत्यनेनाणुविशेषणत्वशङ्कानिवृत्तिः सिद्धा तत्पश्चरूपत्वादस्य योगस्य, न, उत्तरयोगेन सह द्वैविध्यशङ्काभावात् । एकभेदस्य प्रतिपादकोऽयं द्वितीयभेदस्योत्तर इत्यपि ह्याशङ्केत । तत्सङ्घातेत्यादि तु स्कन्धस्य लक्षणं 5
कृतम् , तस्य बहुवक्तव्यत्वाद्, नाणोः अल्पवक्तव्यत्वादित्यपि वितर्कयेत् । 30A तत्र अणव इत्यनेन स्कन्धैकान्तप्रतिक्षेपः, परमाणूनामपि प्रमाणमिद्धत्वात् । घणुकादिः
स्कन्धो भेद्यः, मूतत्वे सति सावयवत्वात् , कुम्भवत् । योऽसौ तद्भदाजातोऽनंशोऽवयवः स परमाणुरिति प्रमाणसिद्धाः परमाणवः स्कन्धवत् । स्कन्धाश्चेत्यनेनाऽण्वेकान्तप्रतिक्षेपः । न घणव एव इत्येकान्तः श्रेयान् , स्कन्धानामक्षबुद्धौ प्रतिभासनात् । तत्प्रतिभासस्य भ्रान्तत्वे 10 बहिरन्तश्च परमाणूनामप्रतिभासनान प्रत्यक्षमभ्रान्तं स्यात् । तथा चार्थाभावप्रसङ्गः ।
अनुमानस्यापि परमाणुग्राहिणोऽसम्भवात् , भ्रान्तात् प्रत्यक्षतः कस्यचित् तल्लिङ्गस्याव्यवस्थानात् । 30B तत्र प्रथमं तावदणूनां स्वरूपमाह-आद्य उत्तरोत्तरध्यणुकादिस्कन्धापेक्षया प्रथमः ।
स्कन्धानां व्यणुकादीनां परिणामिहेतुः परिणामिकारणम् , आद्य इति पदमत्रापि सम्बध्यते, सर्वस्कन्धानां प्रथमं परिणामिकारणमित्यर्थः, द्रव्यतो द्रव्यावयवापेक्षयाऽनंशो निरवयवः, 15 एवम्भूतो यः स परमाणुः । एकवचननिर्देशो जात्यपेक्षः । तत्र आद्यपदेनातिसूक्ष्मत्वमाह । स्कन्धपरिणामिपदेनकान्तव्यतिरिक्तस्यावयविनोऽभावमाह । त एव हि परमाणवः स्कन्धी
भवन्ति, न पुनस्तेभ्यः समुत्पद्य व्यतिरिक्तं द्रव्यं तेष्वेव समवैति । अवयवेभ्य एकान्त31A मेदिनोऽत्रयविनस्तेषु वृत्यभावस्य साधयिष्यमाणत्वात् । द्रव्यतोऽनंशपदेन भावांशैः स्पर्शादिमिः सांशत्वम् , स्वयं ,व्यप्रदेशैरूपत्वाद् द्रव्यांशेर्निरंशत्वं चाह ।।
ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात् ? स एव स्पर्शादिगुणाश्रयत्वादिति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च विरोधादिति चेत् । न । उभयस्वमावस्यापि १. अत्र 'प्रस' इति टिप्पणं वर्तते । तत्र 'प्रस' इत्यस्य प्रथमसमासो बहुप्रीहिरित्येवार्थः । किन्तु 'अ' इत्वस्य अर्थः सम्यग न ज्ञायते । अग्रेऽपि पृ० 148 B मध्ये ईदृशं टिप्पणं वर्तते, अतस्तत्रापि विलोकनीयम् ।। २ व्यणुक-त्र्यणुकादिभेदेन रक्त-पीतादिभेदेन चानन्तत्वात् ॥ ३ - योगस्य सूत्रस्येत्यर्थः ॥ ४ आधः 25 स्कन्धेत्यादिना ॥ ५ अणुस्कन्धा इति ॥ ६ ननु यद्येवं शङ्का स्यात् तदा तत्संघातेत्यादिना सूत्रेण किमिति स्कन्धस्यैव लक्षणं कृतम्, न सूत्रान्तरेण परमाणूनामपि, इत्याशङ्कायाम् ॥ ७ विनाश्यः ।। ८ धर्माधर्मादिभिर्व्यभिचारः स्यादिति — मूर्तत्वे' इति विशेषणम् , मूर्तत्वादित्येव कृते पुद्गलेषु अनैकान्तिकः स्यात् ॥ ९ स्कन्ध ॥ १० केवलरूपोऽभूत् ॥ ११ परमाणु ॥ १२ आध: स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंशः परमाणुः ॥ १३ प्राक् संख्यापेक्षया 'आद्य'शब्दस्य प्रथमता व्याख्यायि, इदानीं परिणामिकारणापेक्षयेति ॥ 30 १४ द्रव्यं चासौ प्रदेशरूपश्च ।। १५ निर्विभागो भागः प्रदेशः ॥ १६ अवयवी ॥ १७ अणुः प्रदेशीति
सम्बन्धः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org