________________
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे तदित्युपसंहरति, तस्मादिमे पूर्व प्रपञ्चिताः स्पर्शादयः स्पर्श-रस-गन्ध-वर्णा अन्योन्याविनाभाविनः वियुक्ता न भवन्ति, एतावता सर्वपुद्गल जातीनां चतुर्गुणत्वोपसंहारः, अपुद्गला 28A अपरमाणन:, न स्वतन्त्रं द्रव्यं किन्तु गुणा इत्यर्थः । एतावता प्रत्येकं परमाणुत्वाभावो___पसंहारः । अपुद्गलत्वं चामीषा प्रत्येकपक्षाश्रयणेन, समुदितानां पुनः कथञ्चित् पुद्गला28B भेदेन पुद्गलत्वमप्यस्तीति ।
तदेवं पुद्गलानां स्वरूपमभिधाय भेदानाह
औदारिकादिभेदेनाऽनेकविधाः पुद्गलाः । द्वेधाऽपि-अणवः स्कन्धाश्च । आद्यः स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंशः परमाणुः । स युगपदविरुद्धद्विस्पर्शः, अन्यतर्रकरसादिः। तत्संघातभेदजो घणुकादिः सांशः स्कन्धः चतुरष्टस्पर्श-पञ्चरस-वर्ण-द्विगन्ध उद्भताध्यक्षवश्वेन्द्रियकः । 10
औदारिकादीति । 'आदि'ग्रहणाद् वैक्रियाऽऽहारक तैजस भाषा-ऽऽनप्राण-मनः कर्मणां परिग्रहः । 'विध'शब्दः प्रकारवचनः पुत्रीलिङ्गः । अनेके अनेका वा विधाः प्रकारा येषामिति विग्रहः । औदारिकादिभेदेन औदारिकादिप्रकारेण अनेकविधाः पुद्गला भवन्ति ।
आगमोक्तमेदापेक्षयाऽनेकविधत्वं प्रतिपाद्य प्रातीतिकं द्वविध्यमाह- द्वेधाऽपीति । 29A न केवलमनेकप्रकाराः, द्विप्रकारा अपि पुद्गला भवन्तीत्यपिशब्दार्थः । अथवा पुद्गल- 15
प्रकाराणां वैविध्यमाह-द्वेधाऽपीति । पुद्गलानामनेकोऽपि प्रकारो द्विप्रकारो भवति । अपिः सम्भावनापाम् , द्विप्रकारत्वमेव सम्भाव्यते, तृतीयप्रकारस्यासम्भवात् ।
तदेव द्वैविध्यमाह-अणवः स्कन्धाश्च । सोक्षम्येणास्मदादीन्द्रियव्यापारातीतत्वाद् अण्यन्ते शब्दमात्रेणेव गम्यन्ते, प्रदेशमात्रमाविस्पर्शादिपर्याय प्रसवसामर्थेनाऽण्यन्ते शब्द्यन्त इति वाऽणवः, सौक्ष्म्याचात्मादय आत्ममध्या आत्मान्ताश्च । तदुक्तम्
20 " आत्मादिमात्ममध्यं च, तथात्मान्तमतीन्द्रियम् ।।
अविभाग विजानीयात् , परमाणुमेनंशकम् ॥" [ ] इति । 29B स्थौल्यात् प्रोयो ग्रहण विक्षेपणादिव्यापारस्कन्दनाद स्कन्धः ।
१ तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः॥२ स्पर्शादीनाम् ॥ ३ औदारिकादिभेदेनानेकविधा: पुद्रलाः ॥ ४ सूत्रम् ।। ५ समुच्चयेऽपिरत्र ।। ६ वैक्रियाहारकादीनां प्रत्येक वैविध्यम् ॥ ७ सूत्रम् ॥ ८ न 25 विन्द्रियेण ॥ ९ ज्ञायन्ते ॥ १० स्वरूपमेवादियेषाम् ॥ ११ अविभागोऽद्वेधारूपो जीवोऽप्यस्ति, तरवच्छित्य अनंशकमिति ग्रहः, यतो जीवः सांशः ।। १२ प्रायेण ग्रहणं विक्षेपणं च व्यापार स्कन्दति, अचित्तमहास्कन्धाटीनां न ग्रहणां न विक्षेपः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org