________________
बौद्धमतखण्डनम् । ननु स्पर्शादयो नान्यस्य कस्यचित् परमाणोर्गुणाः, कि तर्हि ? स्वयमेव परमाणुरूपा इति । अत्राह
न च प्रत्येकं स्पर्शादयः पुद्गला एव, सप्रतिघत्वात् । अस्पृष्टस्याऽप्रतिघाताज्ज्ञानवत् । तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः ।
5 ने च प्रत्येकं पृथक पृथक् स्पर्शादयः स्पर्श-रस-गन्ध-वर्णा: पुद्गला एव परमाणव एव । समुदितानां स्पर्शादीनां कथञ्चित् पुद्गलाभेदेन पुद्गलत्वमस्तीति प्रत्येकग्रहणम् । कुतः ?
सैप्रतिघत्वात् , स्पर्शादीनां सप्रतिघत्वेन भवद्भिरिष्टत्वात् । रूप रस-गन्धपरमाणवः सप्रतिघा 26B भवद्भिरिष्यन्ते । सप्रतिघत्वं च स्वावष्टब्धदेशे परप्रवेशोपघातकरणम् , न चैतद् रूप
परमाणूनां रसपरमाणूनों गन्धपरमाणूनां वा स्पर्शाभावे सङ्गच्छते, परेणास्पर्शे सत्युप- 10 घातस्य कत्तुमशक्यत्वात् । तदाह- अस्पृष्टस्याऽसंसृष्टस्य वस्तुनोऽप्रतिघातात् प्रतिघातस्य कतुमशक्यत्वात् , ज्ञानवदिति साधयम् । यथा ज्ञानमस्पर्श सन्न कस्याप्यपरस्य ज्ञानस्याऽर्थस्य वा प्रतिघातं कतुं प्रभवति, ज्ञानस्य वा यथाऽस्पर्शस्य न कोऽप्यपरो ज्ञानमर्थों वा,
द्वयोरेव हि स्पर्शवतोः प्रतिघात्य-प्रतिघातकभावात् , तथा रूपादिपरमाणवोऽप्यस्पर्शाः 27A सन्तो नान्यम्य प्रतिघातं कुयुरन्यो वा न तेषाम् । तस्मात् सप्रतिघत्वान्यथानुपपच्या 15 रूपादय: स्पर्शवन्त एष्टव्याः ।
ननु यत्र रूपादिपरमाणवस्तत्रावश्यं म्पर्शपरमाणवोऽपि, न खलु स कश्चिद्देशोऽस्ति यत्र रूपपरमाणवो रसपरमाणवो गन्धपरमाणवो वा स्पर्शपरमाणुरहिताः केवला एवाऽ. वतिष्ठन्ते, ततश्च रूपादयः स्वयमस्पर्शचन्तोऽपि सन्निहितस्पर्शपरमाणुबलेन परं प्रतिघ्नन्तीति । तन्न । यम्मान यस्मिन्नेव देशे रूपादिपरमाणवस्तस्थिवांसस्तस्मिन्नेव स्पर्शपरमाणवोऽपि, 20
सप्रतिघवहानिप्रसङ्गात् , किन्तु मिन्नदेशेषु । ततः स्पर्शपरमाणवो यत्र स्वयं स्थिति17B मास्थिषत तत्रान्यप्रवेशं वारयेयुः, अन्यत्र तु रूपादिदेशेषु कथं वारयन्ति ? अन्यथा ज्ञान
देशेऽपि परमाणुप्रवेशवारणप्रसङ्गः । न हि स्पर्शपरमाणवः कापि न सन्ति, तथा च ज्ञानमपि सप्रतिघं स्यात् । तद् रूपादिपरमाणवः स्वतः स्पर्शवन्तोऽभ्युपेयाः, तथा व सति गन्धादिमन्तोऽपि सन्तु। द्वयोरेकवावस्थानाभ्युपगमेऽन्याभ्यां किमपराद्धं येन तावपि 25 नाम्युपगम्यते । १ भस्मरूपेण ॥ २ न च प्रत्येकं स्पर्शादयः पुद्गला एव ।। ३ सूत्रम् ॥ ४ अस्पृष्टस्याप्रतिघातात् ॥ ५ सूत्रम् ॥ ६ प्रतिघातं कर्तुं प्रभवति ॥ ७ कुर्यात् ।। ८ यथा रूपपरमाणुसनिधी स्पर्शपरमाणवो वर्तन्ते तथा ज्ञानसन्निधावपि, ततश्च ज्ञानस्यापि सप्रतिघत्वम् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org