________________
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे
ननु सुरभि जलं सुरभिर्वात इति प्रत्ययो वसुधा गन्धनिबन्धनत्वेनौपचारिकः, कर्पूरादिपरागसम्पर्क हि समासाद्याम्भः सौरभमाविष्करोति, तथा प्रभञ्जनोऽपि मालतीकुसुमस्तचकोप कम्पन पत्रमानस्तद्गन्धमात्मानमातनोतीति । तदपि न, अस्वलद्वृत्तित्वात् । न खलु जलानिलयोः सौरभमसौरभं वा समाघ्राय पुमान् द्रव्यान्तरस्येदं न जलानिलयोरिति प्रत्यवमृशति । नन्वस्ति प्रत्यवमर्शो यथा - कर्पूरपूरगन्धमिदमम्भः, मालती कुसुमगन्धोऽयं 5 गन्धवाह इति । सत्यम्, नोच्यते नास्ति प्रत्यवमर्शः, किन्तु कपूर्रपूर- मालती कुसुम24B सम्पर्केण जला - निलपुद्गलास्तद्गन्धवत्तया परिणमन्त इत्युच्यते । कर्पूरादिपदोच्चारणं तु तद्वशेन तथा परिणामात् । तस्मात् स्पर्शवत्वादवादयः पृथिवीवच्चतुर्गुणाः ।
1
25A
१६
25B
अत एवेति । यत एव पृथिवीकायादयो वायुकायपर्यन्ताः सर्वेऽपि चतुर्गुणा अत एव चतुर्गुणत्वेन सजातीयत्वे एकजातीयत्वे सति पृथ्व्यादीनामादिग्रहणाज्जलादीनां परस्पर- 10 रूपरिणामोऽन्योन्यरूपेण भवनम् कदाचित्तेजसो जलपरिणामो यथा चन्द्रकान्त सम्पर्काद् मृगाङ्ककरनिकरो जैलीभवति, कदाचिजलस्य पृथिवीपरिणामो यथाऽम्भो लवणीभवतीत्यादि ।
1
,
न चैतदेकान्त विजातीयत्वे सम्भवति । हिर्यस्मान्न ज्ञानमर्थरूपतां बाह्यघटादिस्वभावतामुपयच्छते स्वीकरोति । यथा हि ज्ञानमन्यैव जातिरर्थश्चान्या ततस्तयोर्न कदा - 15 चिदप्यन्योन्यमुपादानोपादेयभाव:, न खलु ज्ञानं घटीभवति घटो वा ज्ञानीभवति, तथा यदि पृथिव्यप्तेजोवायूनां ज्ञानार्थयोरिवेकान्तेन विजातीयत्वं स्यात्तदा परस्पररूपपरिणामो न स्यात् अस्ति चासौ, तस्मान्नैकान्तविजातीयत्वम् ।
"
सम्प्रति यस्य कायस्य यत्कायरूपेण परिणमनं तद् वार्तिकेन दर्शयति-लवणमग्भः, लवणं पृथिवीकायोsपि वर्षास्वम्भोरूपेण परिणमते । अथवाम्भः पृथ्वीकायलवणरूपेण परि- 20 णमत इति व्याख्येयम् । तथा दारुस्तेजः । दारुर्वनस्पतिकायोऽपि तेजोरूपेण परिणमते, दृश्यते हि परस्परसङ्घर्षेऽरणिदारुभ्योऽनलस्फुलिङ्गानामुदयः । तथा तेजस्कायो 26A भस्म - तमोरूपेण परिणमते । वह्निर्भस्मीभवति । प्रदीपकलिका तु तमसीभवति । इतिरेवमर्थः एवममुना प्रकारेण पृथिव्यादीनां परस्पररूपपरिणामो दृश्यत इत्यर्थः, स्पर्शादीनां गुणत्वविचारपरिसमाप्त्यर्थो वेति ।
Jain Education International 2010_05
१ याद ते गन्धवहादयः पूर्वे स्पर्शादिमन्तो न स्युः कथं कर्पूरादिवशेन सुरभिगन्धादिमन्तः परिणमेरन्, न हिं असदुत्पद्यत इति || २ अत एव सजातीयत्वेन पृथिव्यादीनां परस्परपरूपरिणामः || ३ चन्द्रकान्तस्य जलपरिणामे तस्य तावती स्थितिर्नोपलभ्येत ॥ ४ न हि ज्ञानमर्थरूपतामुपयच्छते ॥ ५ ६ परिणामिपरिणामभावः ॥ ७ सूत्रम् ॥ ८ अनुवाद्यविधेयभावोऽन्योन्यं पदयोरुभयोरपि ॥ ९ तेजो भस्म तमो वेति ॥
For Private & Personal Use Only
25
www.jainelibrary.org