________________
21 A
21B
स्वोपज्ञटीकासहिते व्यालङ्कारे
ननु यदि स्पर्श-रस- गन्ध-वर्णाः
समस्ता एव मूर्तिस्तदा पुद्गललक्षणमव्यापि स्यात् सर्वेषां स्पर्शादीनां सर्वत्र पुद्गलजातावभावात् । तथाहि--जले गन्धस्याभाव:, तेजसि गन्ध-रसयोः, वायौ गन्ध-रस- रूपाणाम्, अभावश्च गन्धादीनामत्रादिषु असंवेदनादिति ।
+
१४
अत्राह
सममेकत्र चतुर्धा सत्त्वेऽप्युद्भूतस्य ग्रहः स्पर्शाविनाभावि - 5 त्वात् । अत एव सजातीयत्वे पृथिव्यादीनां परस्पररूपपरिणामः, न हि ज्ञानमर्थरूपतामुपयच्छते । लवणमम्भः, दारुस्तेजः, तेजो भस्म तमो वेति ।
सेममेककालं न क्रमेण । एकत्र पृथिव्यां जले तेजसि वायौ वा धर्मिणि चतुर्द्धा रूप-रम- स्पर्श गन्धलक्षणैश्रतुर्भिः प्रकारैः पृद्गलभावरूपपरिणामस्य सत्त्वेऽपि विद्यमानत्वेऽपि, एतावता पृथ्व्यादीनां वायुपर्यन्तानां सर्वेषामपि चतुर्गुणत्वमाह, यथा पृथिवी-स्पर्श-रस- गन्ध-वर्ण- 10 ती तथाचादीन्यपीत्यर्थः । उद्भूतस्य ज्ञानपरिच्छेद योग्य परिणामस्य ग्रहो ज्ञानेन परिच्छित्तिः । एतावताऽनुपलम्भे कारणमाह । सन्त्येव सर्वत्र पुद्गलजातौ स्पर्श-रस- गन्ध-वर्णपरिणामास्तथापि यो यदा ग्रहणयोग्यो भवति स एव गृह्यते नान्ये सन्तोऽपि न खलु यदस्ति तत् सर्वमपि छद्म थज्ञानग्राह्यं भवति । ततो नाव्यापि लक्षणम् ।
इदमुक्तं भवति--त एव पुद्गलाः कदाचित् पृथिवीरूपमपहाय जल-तेजो- वायूनां 15 रूपमादधति, कदाचिच्च तेषां रूपमपहाय पृथ्वीरूपमुपाददते । ततो यदा जलादिरूपं विरहस्य पृथ्वीत्वमागृह्णन्ति तदा चतुर्गुणत्वं न स्यात् यदि जलादीनामपि चतुर्गुणत्वं न स्यात् । न खलु सर्वथाऽप्यविद्यमानं किमप्युत्पद्यते षष्ठभृतोत्पादप्रसङ्गादिति जलादयोऽशक्यगन्धादिगुणोपलम्भा अपि चतुर्गुणा एव ।
"
सममेकत्र चतुर्धा सच्चे हेतुमाह - स्पर्शेन सहाविनाभावित्वात् । स्पर्शस्तावत् सर्व- 20 पुद्गलद्रव्यावस्थायी स्पर्श च रसादयो न व्यमिचरन्तीति सर्वाण्यपि पुद्गलद्रव्याणि चतुगुणान्येव । तथाहि - आपो गन्धवत्यः, तेजो गन्ध - रसवत्, वायुर्गन्ध-रस-रूपवान, स्पर्शaara, पृथ्वीवत् वैधर्म्येणाकाशवत् । प्रत्यक्षागम विरुद्ध पक्षनिर्देशानन्तरं प्रयुक्तत्वात् तेजस्यनुष्णत्वे माध्ये द्रव्यत्ववत् कालात्ययापदिष्टो हेतुरिति चेत्, न. नायनरम्यादिष्वभूतरूपस्पर्शविशेषास्तित्वे माध्ये तेजसत्वस्य हेतोः कालात्ययापदिष्टत्वप्रसङ्गात् । ततो 25 १ सममेकत्र चतुर्धा सत्वेऽप्युद्भूतस्य ग्रहः ॥ २ भावः पर्यायो द्रव्य-क्षेत्र - काल- भावरूपः ॥ ३ स्पर्शाविनाभावित्वात् ॥ ४ अनुद्भूतं रूपं स्वभावो यस्य स्पर्शविशेषस्य, यद्वा द्वितयम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org