SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तथैव यदि तद्वीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥ ४ ॥" [ ] इति । तदेतन्न । यस्माद् बीजानि धान्यत्वेन अकुरत्वेन परिणम्य तद्रूपतामनुभूय किसलयादिभिः परिणाहीभवन्तीति सम्बन्धः । किं कुर्वन्ति ? भूमेः पृथिव्या इमं भौमं रसं तप्तो 18A वह्निसाद्भूतः स चासावऽयसो लोहस्य पिण्डश्च स इवोदकस्येममौदकं च रसमाहरन्ति इति 5 सम्बन्धः, बालका इव डिम्भा इव, सवित्री माता, तस्याः स्तन्यं दुग्धमिति साधर्म्यदृष्टान्तः । किसलं नवकिसलयम् । आदिशब्दात पत्र-काण्डादिग्रहः । परिणाहीभवन्ति विशालीभवन्ति । बीजानां ह्यङ्कुरमात्रपरिणामे व्यापारः, वृद्धौ तु भौमोदकरसस्य । न चेतावताऽमीषां तत्परिणामत्वविरोधः। परिणामस्य हि तैद्भावमात्रमेव लक्षणं न वृद्धयभावोऽपि । तच्चामीषा- 10 मस्त्येव । ततोऽकुरम्य रमाद् वृद्धावपि बीजस्य तत्परिणामता न विरुध्यते । अत एव जतुकाष्ठदृष्टान्तो विषमः । बीजं हि भौमोदकरसः स्वपरिणाममपहायाकुररूपतां धत्ते, न त्वेवं जतुना काष्ठं स्वपरिणाममुज्झति । ततः काष्ठम्य तादवस्थ्यं युक्तं न वीजस्य । तस्मादङ्कुरम्य वृद्धावपि बीजपरिणामता न विरुध्यते । सम्प्रति व्याप्ति विघटयति-दुग्धदधीनि च तापेनाऽऽग्नेयेन मानवीयेन चाऽभितप्तानि 15 स्फारीभवन्ति मूलप्रकृतेः सकाशादधिकीभवन्ति । शीतक्षीरस्य ह्यग्निसम्पर्कात् तप्यमानोत्फेनक्षीरपरिणामस्तथा दध्नो धर्मोद्वतितदधिपरिणामो वा मूलक्षीर-दधिभ्यां वृद्धिमानुपलब्ध इति कथं वृद्धयभावः परिणामस्य परिणामिनः सकाशात् ? अपि च “बीजपरिणामत्व19A मङ्करस्यकान्तवादिनोऽसिद्धम् । पराभ्युपगमात् सिद्धौ वृद्धिसिद्विरपि तत एवास्तु, सर्वथा विशेषाभावात् । तन वृद्धयभावात् परिणामाभाव: स्याद्वादिनं प्रति साधयितुं शक्यः । 20 तस्मात् सिद्धः परिणामः ।। सम्प्रति परिणामस्य वैचित्र्यं दर्शयति स चायं परिणामः कश्चित् सदृशेतरः -बालादीनां कुमारादिभावः स्थूलादीनां कृशादिभावो वा, अत्रोभार्पणा । कश्चिद् विसदृशः-नारकादीनां मानवादिजन्म घटादीनां कपालादिभावो 25 १ बीजानि धान्यत्वेन परिणम्य भौमं तप्तास्पिण्डवदोदकं च सं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहीभवन्ति ॥ २ सन्ति ॥ ३ सन्ति ।। ४ तेन तेन रूपेण भवनम् ॥ ५ 'यो यत्परिणामो न स ततो वृद्धिमान् यथा दुग्धाद् दध्यादि ' इत्यनुमानगताम् , यतः परिणामिनः सकाशादधिकोऽपि परिणामो भवतीति ॥ ६ दग्धदधीनि च तापाभितप्तानि स्फारीभवन्ति ॥ ७ स्फटित ॥ ८ यो यत्परिणाम इत्यवादि त्वया तत् तवासिद्धम् ॥ ९ परिणामित्व ॥ 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy