________________
परिणामस्वरूपवर्णनम् । 'तेन तेन विवक्षितेन्द्रियग्राह्यत्वादिना रूपेण भवनं भावः पुद्गलानामुत्पादः परिणामो भण्यते । यदमीषां पुद्गलानां द्रव्य-क्षेत्रादीन सहकारिणः प्राप्य तत् तत् कठिनादिरूपमाविभवति स परिणाम इत्यर्थः । अथवा समस्तपञ्चास्तिकायव्यापिपरिणामलक्षणतयेदं व्या
ख्यायते- तेषां जीवादिद्रव्याणां प्रतिनियनरूपेण भवनं भाव उत्पादो यः स परिणामः । 11B तेषामिति कर्तरि षष्ठी । ततस्तान्येव द्रव्याणि तथा भवन्ति, न कूटस्थनित्यान्यव तिष्ठन्ते, 5
नापि सर्वथोत्पद्यन्ते, नापि सर्वथा विनाशमाविशन्ति । किं तर्हि ? कथञ्चित् पूर्वरूपमपहाय रूपान्तरमास्कन्दन्तीति मिदम् ।
स च परिणामः प्रयोग-विसाप्रभवत्वेन द्वधा । तत्र विस्रसापरिणामोऽनादिरादिमांश्च । चेतनद्रव्यस्य तावजीवन्व-भव्यत्वा-ऽभव्यत्वादिनादिः । औपशमिकादिः पुन12A गदिमान । स तु कर्मोपशमाद्यपेक्षन्वेनापौरुषेयत्वात् कश्चिद् वैससिकः। अचेतनद्रव्यस्य 10
तु लोकसंस्थान-मन्दराकारादिग्नादिः, इन्द्रधनुरादिगदिमान , पुरुषप्रयत्नानपेक्षत्वादेव वैस्रमिकः । प्रयोगजः पुनर्दान-शील-भावनादिश्चेतनस्य, गुरूपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात् । घटमंस्थानादिश्चेतनस्य, कुलालादिपुरुषप्रयत्नापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैससिकोऽसंख्येयप्रदेशत्वादिरनादिः, प्रतिनियतगत्युपग्रहहेतुत्वादिरादिमान । प्रयोगजो यन्त्रादिगत्युपग्रहहेतुत्वादिः, पुरुषप्रयोगापेक्षत्वादिति ।
15 12B अथ द्रव्याणामयं परिणामः कि पूर्वपर्ययम्य परित्यागादुतापरित्यागाद्भवति ? तत्र
यदि परित्यागात् तदा पूर्वपर्ययस्य सर्वथा स्वरमनिगेधे स्वभावान्तरमपूर्वमुत्पद्यत इति परिणामरूपतैव न स्यात् । अन्वयाऽपरित्यागे विस्रसा-प्रयोगप्रभवो द्रव्यविकारः परिणाम इति हि जैनाः समामनन्ति । अथापरित्यागात् तदा पूर्वोत्तरपर्यययो: मांकर्येण वृद्धावस्थायामपि यौवनोपलम्म: स्यात् , न चैवम् , तस्मान्न परिणामो वास्तव इति । 20
तत्र प्रथमपक्षमाश्रित्याह-'द्रव्येति । न पूर्वोत्तरावस्थयोरेकान्तेन सर्वथा भेदोऽस्ति येन परिणामरूपता न स्यात् , द्रव्यानुवृत्तेः द्रव्यम्य पूर्वपर्यायव्यापिनो मनुष्यत्वादेरुत्तरपर्याये13A ऽनुवर्त्तनात् । एतदुक्तं भवति- न बाल्यादिः पर्यायः सर्वथा निवर्त्तते, नाप्यनुवर्तते,
किन्तु बाल्यादिचेष्टितादिमात्रेण विनिवर्त्तते मनुष्यत्वेनाऽनुवर्तत इति कथं पूर्वोत्तरयोरेकान्तभेदेन परिणामरूपता न स्यान् , द्रव्यस्यान्वयेन परिणामलक्षणयोगात् ? १ तद्भावः परिणामः ॥ २ स्वरूपेण ॥ ३ पूर्व पुद्गलानपेक्ष्य परिणाम उक्त इदानीं समस्तान् ॥ ४ कुन्थ्यादिरूपेण ॥ ५ सकषायत्व-असंख्येयप्रदेशत्वा-Sमर्तत्व-सकर्मकत्वादिः ॥ ६ बुद्धिपूर्वकात्मव्यापाररहितत्त्वादित्यर्थः । यथा ग्रन्थिभेदानन्तरमौपशमिकसम्यक्त्वकाले औपशमिको भावो घण्टनघोलनान्यायेन ॥ ७ वर्षधरादयः ।। ८ परमाण्वादीनाम् ॥ ९ यन्त्रवाहनादीनां या गतिस्तस्या अपि धर्मास्तिकायो हेतुः ॥ १० पूर्वपर्यायस्य ।। ११ द्रव्यानुवृत्त्या न पूर्वोत्तरायस्थयोरेकान्तभेदः ॥
30
25
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org