________________
स्वोपाटीकासहिते द्रव्यालङ्कारे ततः पुरुषभेदेन लोहितो वर्णों रौद्रस्य क्षोभस्य च हेतुः । सिन्दरादिवर्णस्याहादकत्वेन व्यभिचारपरिहारार्था प्रायोऽनुवृत्तिः ।
तथा प्रेसादस्य मनसः प्रसन्नताया यो हेतुर्वर्णः स शोकति तत्र मनो गच्छतीति शुक्ल इत्युच्यते । यतो वर्णाद् मनसः प्रमत्तिरुपजायते स शुक्ल इत्यर्थ । भवति च सितकुसुमाऽम्भोज-शशाङ्कमण्डलादि विलोकयतामभिनवाम्बुधग्पयःप्रक्षालितांशुकस्येव मनसो नैर्मल्यम् । 5
तथा 'शोर्नेत्रयोः प्रसादस्य यो हेतुर्वर्ण: स नील इत्युच्यते । प्रसादस्येति पूर्वोपात्तमभिसंबध्यते । दृशोश्च प्रमाद आह्लाद एव. नितान्तखिन्नापि हि दृष्टिः
कानना-ऽवनीरुहराजी-पल्लवान्यवलम्ब्य परामाहादसम्पदमधिरोहति । 10B तथा देशोविघातस्योपघातस्य यो हेतुर्वर्णः स पीत इत्युच्यते, दृशोरिति पूर्वो
पात्तं सम्बध्यते। यतो वर्णाद् दृशोरुपघातो भवति स पीत इत्यर्थः। तथाहि-चामी- 10 कर-वैश्वानरादिकं भास्वरं रूपमवलोकयन्ती दृष्टिरुपहन्यते ।
ननु शवलोऽप्यस्ति वर्णः, तत् कथं न पञ्चसंख्याविरोधः ? इत्यत आहसंयोगजो द्वि-त्रि-चतु:-पञ्चवर्णानां मिश्रणजः सारको वर्ण इति तद्ग्रहणेनेव गत इति न संख्याविरोधः।
इति मूलभेदाः, एते स्पर्शादीनां मूलभेदा मूलजातयो भवन्ति । अवान्तरभेदाः 15 11 पुनरमीषामनन्ता न शक्यन्ते परिगणयितुमिति न तेषां सत्रसंग्रहः ।
कः परिणामशब्दस्यार्थ इति उच्यते
तद्भावः परिणामः । द्रव्यानुवृत्त्या न पूर्वोत्तरावस्थयोरेकान्तभेदः । अत एव न सांकर्यम् । परिणाम-परिणामिनोः स्यादभेदः सम्बन्धः । अत एव स्यादेकत्वा-ऽनेकत्व-नित्यत्वा-नित्य- 20 त्वानि । एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्यते । बीजानि धान्यत्वेन परिणम्य भौमं तप्तायस्पिण्डवदोदकं च रसं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहोभवन्ति । दुग्ध-दधीनि च तापाभितप्तानि स्फारीभवन्ति ।
१ प्रसादस्य शुक्लः ॥ २ दशोर्नीलः ॥ ३ विघातस्य पीतः ॥ ४ संयोगजः सारङ्ग 25 इति मुलभेदाः ॥ ५ * •मम्बन्धः' इति पदं भूलादश नास्ति, टीकादशं तु टिप्पणे विद्यते ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org