________________
- पुद्गलस्वरूपवर्णनम् । 9A मम्प्रति वर्णम्य लक्षणं भेदांच प्राह
चक्षुषा कालादिः पञ्चधा वर्णः । उद्वेगस्य कालः । रौद्रक्षोभयोर्लोहितः । प्रसादस्य शुक्ल: । दृशोर्नीलः । विघातस्य पोतः । संयोगजः सारङ्गः । इति मूलभेदाः ।
चक्षुषा चक्षुरिन्द्रयेण ग्राह्यो वस्तूनां परिणामः कालादिर्वर्ण इति सम्बन्धः । 5 आदिग्रहणालोहित-शुक्ल-नील पीतानां परिग्रहः । एतावल्लक्षणम् - 'यो वस्तूनां परिणामविशेषो नेन्द्रियेण गृह्यते स वर्णः' । पञ्चधेति भेदकथनम् । तस्य वर्णस्य कालादयः पञ्च भेदा भवन्ति ।
सम्पति वर्णभेदानपि प्रत्येकं यथाक्रमं लक्षयति-उद्वेगस्येति उद्वंगस्याऽरते हेतुर्वर्णः स कालयति मनो मलिनीकरोति काल इत्युच्यते । यतो मानसस्योद्वेगो 10
भवति स वर्णः काल इत्यर्थः । मषी-नीली-कर्दमा-ऽन्धकार-पिशाचादिवर्णमवलोकयता "B हि मनः समुद्विजते । अत एवायं शुक्लविरोधी, तस्य मनोनैर्मल्यहेतुत्वात् । प्रायोऽनु वृत्तेभ्रमरादीनामाह्लादजनकत्वेन व्यभिचारनिरासः ।
तथा रौद्रस्य क्षोभस्य च यो हेतुवर्णः स लोहित इत्युच्यते । यतो मनसो रुद्रत्वक्षुभितत्वे भवतः स वर्णो लोहित इत्यर्थः । तथाहि-रुधिरं रक्तकरवीरकुसुम- 15 प्रकाकिनां ममगङ्गणभुवं च समालोकयनां क्षत्रियकुमाराणां रौद्रः परिणामः प्रादुर्भवति । तथा मन्त्रविशेषमाधनेषु रौद्रावेशाविर्भावाय सकलमपि नेपथ्योपहार-स्थान-ध्येयादिकं लोहितं क्रियते । सैद्रो रसोऽपि लोहितवर्णों वर्ण्यते । यद् भरतमुनिः
" श्यामो भवेत्त शृङ्गारः, सितो हास्यः प्रकीर्तितः ।
कापोतः करुणश्चैव, रक्तो रौद्रः प्रकीर्तितः ॥" [नाट्यशास्त्रे ६ । ४२ ] 24
तथा रुधिरं रक्तकरवीरकुसुमप्रकराङ्किता समराङ्गणभुवं चालोकयतां कातराणां क्षोमो भवति । यदाह. 10A “ विष्टाकमिज उद्वेगी क्षोमणो रुधिरादिजः ।" [नाट्यशाखे ६ । ८१]
वीभत्सो द्विविध इति । १ चक्षुषा कालादिः पञ्चधा वर्णः ॥ २ उद्वेगस्य कालः ॥ ३ रोद्रक्षोभयोलोहितः ॥ 25
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org