________________
स्थोपाटीकासहिते द्रव्यालङ्कारे तथा आस्रवणस्य लालानुतेः क्लेदनस्य च रंदनमार्दवस्य यो हेतू रसः सोऽम्ल इत्युच्यते । यतो लालासति-दन्तक्लिबते भवतः स रसोऽम्ल इत्यर्थः । मातुलुङ्गकपित्थादिरसमाहरतां हि लालासति-दन्तविक्लित्ती दृश्येते । तथा हादनस्य परमा
हादस्य हणम्य च शरीरपुष्टयों हेतू रसः स मधुर इत्युच्यते । यतः परमाह्लाद8A शरीरोपचयौ भवतः स रसो मधुर इत्यर्थः ।।
ननु लवणोऽप्यस्ति रसः, तत् कथं न पञ्चसंख्याविरोध इत्यत आह-लवणो मधुरान्तर्गतो मधुरान्तःपातीति तद्ग्रहणेनैव गत इति न संख्याविरोधः । प्रकारान्तरमप्याह-संसर्गजो वा, रसद्वय-त्रयमीलनसमुत्थो वा लवणो रस इति तद्ग्रहणेनैव गतस्ततो न संख्याविरोधः । तिक्त-मधुरा-ऽम्लरससमुत्थो हि लवणरसः, तेषां तोपत्संवेदनादिति केचिदाचक्षते । 'इति'करणो रसभेदेयत्तावद्योतकः ।
10 सम्प्रति गन्धस्य लक्षणं भेदौ च प्राह
घ्राणेन सुरभ्यादिदे॒धा गन्धः । औन्मुख्यस्य सुरभिः । वैमुख्यस्यासुरभिरिति ।
'प्राणेन घ्राणेन्द्रियेण ग्राह्यो वस्तूनां परिणामविशेषः सुरभ्यादियः स गन्ध इति 8B सम्बन्धः । आदिग्रहणादसुरभिग्रहः । एतावल्लक्षणम् - 'यो वस्तूनां परिणामविशेषो 15
घ्राणेन्द्रियेण गृह्यते स गन्धः' । द्वेधेति भेदकथनम् , तस्य गन्धस्य सुरभ्यसुरभी द्वौ भेदौ भवत: ।
____सम्प्रति गन्धभेदावपि प्रत्येकं लक्षयति-प्राय औन्मुख्यस्योत्सुक्यस्योपभोगामिलापस्येत्यर्थः, यो हेतुर्गन्धः स सुरभिरित्युच्यते । यतो गन्धादोन्मुग्घ्यं भवति स सुमिरित्यर्थः।
20 तथा "वैमुख्यस्य विचिकित्साया उपभोगामिलापनिवृत्तेरित्यर्थः, यो हेतुर्गन्धः सोऽसुरभिरित्युच्यते । यतो गन्धात् पुरुषस्य जुगुप्सा भवति सोऽसुरभिरित्यर्थः । 'इति'करणो गन्धभेदेयत्तावद्योतकः ।
१ आम्रषण-क्लेदनयोरम्लः ॥ २ बीजपूरकादिभक्षणात् दन्तानामम्लत्वम् ॥ ३ हादन-बृहणयोर्मधुरः॥ ४ लवणो मधुरान्तर्गतः ॥ ५ मधुराद् माधुर्य जायते तथा लवणादपि माधुर्यम् । अतो माधुर्यकारणात् 25 लवणोऽपि मधुरो रस उच्यते ॥ ६ संसर्गजो वेति ।। ७ एतदाचार्यापेक्षया संसर्गेति सूत्रम् ॥ ८ घ्राणेन सुरभ्यादिधा गन्धः ॥ ९ औन्मुख्यस्य सुरभिः ॥ १० वैमुख्यस्यासुरभिरिति ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org