SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पुलस्वरूपवर्णनम् । तथा वस्तूनां ये चिकणत्वा ऽचिक्कणत्वे ते यथासंख्यं स्निग्ध-रुक्षौ स्वश वेदितव्यौ । चिकणत्वपरिणामः स्निग्धः, अचिक्कणव परिणामस्तु रूक्षः । इदं च स्वरूपमेव 6A क्षणमग्नेष्यमित्र । ये तु बन्धाबन्धहेतुत्वं लक्षणमाहुस्तेषां स्वरूप संकरप्रसङ्गः, उभयोरप्युभयहेतुत्वात् । एतच्चोत्तरत्र वक्ष्यामः । ' इति 'करणः स्पर्शभेदेयत्तावद्योतकः । न रूक्षो नाम गुणोऽस्ति स्नेहाभावे रुक्षव्यवहारसिद्धेरिति चेत्, न, रूक्षाभावे स्नेह - 5 6B व्यवहारप्रसङ्गात् स्नेहस्याप्यभावापत्तिर्तेः शीताभावे उष्णव्यवहार प्रसक्त्योष्ण गुणाभावानुपङ्गाच्च । स्पर्शनेन्द्रियज्ञाने शीतवदुष्णगुणस्य प्रतिभासनादुष्णो गुणः स्पर्शविशेषोऽस्तीति चेत् तर्हि स्नेहवत् स्पर्शनेन्द्रियज्ञाने रूक्षस्यावभासनात् कथं रूक्षो गुणो न स्यात् तस्य बाधकाभावेनाऽप्रतिक्षेपार्हत्वात् ? तस्मात् स्निग्ध-रुक्षौ चिक्कणत्वा ऽचिकणत्वपरिणामरूपौ पृथगेव गुणाविति । " , एवं स्पर्शस्य लक्षणं भेदान "भेदलक्षणं चाभिधाय रसस्य प्रतिपादयति रसनेन तिक्तादिः पञ्चधा रसः । कफशान्तेस्तिक्तः । पाटवस्य च कटुः । रक्तदोषादिशान्तेः कषायः । आस्रवण- क्लेदनयोरम्लः । ह्लादन - बृंहणयोर्मधुरः । लवणो मधुरान्तर्गतः संसर्गजो वेति । 7B रैसनेन रसनेन्द्रियेण ग्राह्यो यो वस्तूनां परिणामस्तिक्तादिः स रस इति सम्बन्धः । 15 7A 'आदि' ग्रहणात् कटुकषायाम्ल-मधुराणां परिग्रहः । एतावल्लक्षणम् -' यो वस्तूनां परिणामविशेषो रसनेन्द्रियेण गृह्यते स रसः । पञ्चधेति भेदकथनम् । तस्य रसस्य तिक्तादयः पञ्च भेदा भवन्ति । सम्प्रति रसभेदानपि यथाक्रमं लक्षयति — कँफस्य लेष्णः शान्तेरुपशमस्य यो हेतू रसः स तिक्त इत्युच्यते । यतः श्लेष्मोपशमो भवति स रसस्तिक्त इत्यर्थः । 20 तथा पाटवस्य गलामयशोकादिघातेन पटुतायाश्चकारात् कफशान्तेय हेतु रसः स कदुरित्युच्यते । यतः शरीरपाटव - कफशान्ती भक्तः स रसः कटुरित्यर्थः । तथा रक्तदोषस्य 'आदि' शब्दात् कफपित्तयोश्च शान्तेर्यो हेतू रसः स कषाय इत्युच्यते । यतो रक्तदोषादि निवर्त्तते स रसः कपाय इत्यर्थः । 1 १ चिणत्या चिक्कणत्वे स्निग्धरूक्षाविति । २ पूर्वेषां स्पर्शानां कार्यद्वारा लक्षणत्वमस्य तु स्वरूपमेव 25 लक्षणम् ॥ ३ स्निग्धरुक्षयोः || ४ स्नेहस्यापि रुक्षाभावापत्त्या भवदुक्तं न I स्नेहव्यवहारप्रसङ्गात् ॥ ५ प्रायोऽनमनस्य हेतुः कठिन इत्यादि ॥ ६ ग्सनेन पञ्चधा रसः ।। ७ कफशान्तेस्तिक्तः ॥ ८ पाटवस्य च कदुः ।। ९ रक्तदोषादिशान्तेः कषायः ॥ हेतुमाह-रूक्षाभावे तिक्तादिः Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy