________________
४B
SA
स्वोपज्ञटीकासहिते व्यालङ्कारे
ग्रहः । एतावल्लक्षणम् - यो वस्तूनां परिणामविशेष: स्पर्शनेन्द्रियेण गृह्यते स स्पर्श इति । अष्टघेति भेदकथनम्, तस्य स्पर्शस्याष्ट भेदा भवन्ति यः स्पर्शनेन ग्राह्यो यश्चाष्टभेद इति विशेषणममुच्चयात् स्पर्शाभावेन न व्यभिचारः । स हि स्पर्शनग्राद्यो भवति, न मेदः । एवं रसादिष्वपि योज्यम् ।
ど
सम्प्रति स्पर्शभेदानपि यथाक्रमं लक्षयति- अनमनस्य वस्तूनामसंनतेः प्रायो यो हेतुः 5 कारणं स्पर्शः स कठिन इत्युच्यते । यतः स्पर्शाद्विस्तृनाम् नमन क्रियाऽभावः स स्पर्श: कठिन इत्यर्थ: । ' प्राय: 'शब्दः संन्तोऽत्मनबहुत्ववचनोऽव्ययम्, अयं च यथासम्भवमुत्तरत्र सम्बन्धनीयः ।
तथा वस्तुन मनमनस्य यो हेतु: स्पर्श स मृदुरित्युच्यते । यतः स्पर्शाद्वस्तुनां नमनक्रिया स स्पर्शो मृदुरित्यर्थः । पूर्वसूत्रोपात्तं हेतुपदं सर्वेष्वप्युत्तरेषु भेदलक्षणसूत्रेषु 10 षष्ठयन्तपदे सम्बध्यते ।
तथा अधोगतर्वस्तुनामधोगमनस्य यो हेतुः स्पर्शः स गुरुरित्युच्यते । यतो वस्तूनामधोगमनक्रिया स स्पर्शो गुरुरित्यर्थः ।
तथा वस्तूनां तिर्यकं ऊर्थ च गतेर्गमनस्य यो हेतुः स्पर्शः स लघुरित्युच्यते । यतो वस्तूनां तिर्यगृधं च गमनम् स स्पर्शो लघुरित्यर्थः । 'प्रायः 'शब्दानुवृत्तेः परमा- 15 णूनां कदाचिदधोगमनेन व्यभिचारपरिहारः । लघुः पृथक् स्पर्शो न प्राप्नोति गुरुत्वाभावरूपत्वात्तस्येति चेत्, न, गुरुत्वस्यापि लघुत्वाभावरूपत्वप्रसङ्गात् । गुरुत्वस्याभावरूपत्वे तारतम्यं न प्राप्नोतीति चेत्, न लघुत्वस्यापि गुरुत्वाभावरूपत्वेन तारतम्याभावप्रसङ्गात् । तस्माद् गुरुत्व-लघुत्वे पृथगेव स्पर्शाविति ।
तथा वस्तूनां काठिन्यस्याऽपाकस्य चाक्लिन्नतायाः प्रायो यो हेतुः स्पर्शः स 20 SB शीत इत्युच्यते । यतो वस्तूनां काठिन्या- ज्याकौ भवतः स स्पर्शः शीत इत्यर्थः ।
तथा वैस्तूनां मार्दवस्य मृदुताया: पाकस्य च विक्लित्तेर्यो हेतु: स्पर्शः स उष्ण इत्युच्यते । यतो वस्तूनां मार्दव-विक्लित्ती मत्रतः स स्पर्श उष्ण इत्यर्थः । १ अभावस्यैकरूपत्वात् ।। २ प्रायोऽनमनस्य हेतुः कठिनः ॥ ३ सकारान्तः || ४ सन्नतेर्मृदुः ॥ ५ तिनसादीनाम् || ६ अधोगतेर्गुरुः ॥ ७ तिर्यगूर्धगतेर्लघुः || ८ इदं गुरु इदमतिशयेन गुरु इति 25 तारतम्यं न स्यादभावरूपस्य तारतम्यासम्भवात् || ९ हिमादीनाम् || १० काठिन्यापाकयोः शीतः ॥ ११ मार्दवपाकयोरुष्णः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org