________________
3B
10
पुद्गलस्वरूपवर्णनम् । पुद्गलत्वस्येष्टत्वात् । मुक्तात्मानः प्रक्षीणाशेषकर्माणः समधिरूढसिद्धशिलास्थला जीवाः । 3A तेषां धर्मास्तिकाया-ऽधर्मास्तिकाय-मुक्तान्मनां लोके शरीरसंस्थानत्वात् , लोक-शरीरयो:
संस्थान संस्थानं येषामिति " उष्ट मुखादयः" [सि०३-१-२३ ] इत्येकसंस्थानपदलोपी समासः । धर्माधर्मास्तिकायनिमित्तगतिस्थितिव्यवच्छिन्नो व्योमभागो लोकः, यद्वक्ष्यामः " गति-स्थितिमाल्लोकः " इति । तत्र धर्माधर्मास्तिकाययोर्लोकसंस्थानमेव 5 संस्थानम् , ताभ्यामखिलस्यापि लोकस्य व्याप्तत्वात् , लोकस्य च संस्थान प्रतिपन्नवैशाख स्थानस्य कटितटावस्थितकरयुग्मस्य पुरुषस्य यादृशं तादृशं भवति । तदुक्तम्"वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः ॥" [ प्रशमस्तौ २१० ] इति । मुक्तात्मनां पुनस्त्रिभागन्युनस्वशरीरसंस्थानमेव संस्थानम् , तदुक्तम्" जं संठाणं तु इहं भवं चयंतस्य चस्मिसमयम्मि ।
आसी य पएमघणं तं संठाणं तहिं तस्म ॥ दीहं हस्सं वा वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥"
[आवश्यकनियुक्तौ गा० ९६९-९७० ] इति । तस्माद् यदि संस्थानं मूर्तिशब्देनोच्येत तदा धर्मादीनामपि तस्य भावात् पुद्गल- 15 लक्षणं व्यभिचारि स्यादिति स्पर्शादय एव मूर्तिः । तथाऽसर्वगतद्रव्यपरिमाणमपि मूर्तिशब्देन नोच्यते, आत्मनामपि पुद्गलत्वप्रमङ्गात् , 'तेषामसर्वगतत्वस्य प्रसाधितत्वात् ।
सम्प्रति प्रत्येकं स्पर्शादीनां लक्षणं भेदांश्च प्रतिपादयति
स्पर्शनेन ग्राह्यः परिणामः कठिनादिरष्टधा स्पर्शः । प्रायोऽनमनस्य हेतुः कठिनः । सन्नतेम॒दुः । अधोगतेर्गुरुः । तिर्यगूर्धगते- 20 लघुः । काठिन्या-ऽपाकयोः शीतः । मार्दव-पाकयोरुष्णः । चिक्कणत्वा-चिक्कणत्वे स्निग्ध-रूक्षाविति ।
____ स्पर्शनेन स्पर्शनेन्द्रियेण ग्राह्यो विषयीकार्यों यो वस्तुनः परिणामः पर्यायविशेषः 4A कठिनादिः म स्पर्श इति सम्बन्धः । आदिग्रहणाद् मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रुक्षाणां
१ वैशाखस्थानस्थ इति ॥ २ * तुला-" लोक्यत इति लोकः । . . . . . स च धर्माधर्मास्तिकायव्यवच्छिन्नम- 25 शेषद्रव्याधारं 'वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशवण्ड पञ्चास्तिकायात्मको वेति ।" - आचाराङ्गटीका पृ० ८३ 8 ॥ ३ प्रस [प्रथमसमास: = बहुव्रीहिः अत्र विवक्षित इत्यर्थः] ॥ ४ ३' [ तृतीया विभक्तिरत्र विग्रहे ज्ञेया ] || ५ विशेषितः ॥ ६ आत्मनाम् ॥ ७ अस्माकं मते ॥ ८ स्पर्शनेन ग्राब. परिणामः कठिनादिरष्टधा स्पर्शः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org