________________
10
द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः
23 एकनिमित्तत्वे शब्दप्रत्ययभेदोऽपि न स्यात्, निमित्तवैरूप्यजत्वानिमित्तिवैरूप्यस्य । अन्यथा न प्रतिनियतोपादानपरिग्रहः । पीतमेव वा सकलनीलादिप्रत्ययहेतुः स्यात् ।। ___एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम्, सर्वज्ञताभेदप्रसङ्गात् । न चार्थनिबन्धनास्तबुद्धयः, अतीतादिषु भावात् । अन्यथा तद्रूपतैव न स्यात् । 5
न च विकल्पधियो न प्रमाणम्, सम्यगनुभवत्वात् । तदस्खलितशब्दप्रत्ययभेदो भिन्नहेतुरेव ।
पररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र भावः, सर्वत्र सता स्वरूपासत्त्वेन बाधनात्, पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च।
सदसद्रूपते स्वतो धर्मिणश्च स्यादभेदिन्यौ, धर्म-धर्मिणोरेकान्तभेदा-ऽभेदयोः सम्बन्धाभावात् । तदेकं सदसद्रूपमिति ।
एवं सप्तभङ्ग्यपि सिद्धा। काय: प्रदेशबाहुल्यं भावांशैस्तदणोः पुनः । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ॥१॥ अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु-कार्यते ॥२॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप-शीतयोरपि लक्ष्यते ॥३॥ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥४॥ इति सङ्ग्रहश्लोकाः ।
कालश्चेत्येके । इति द्रव्यालङ्कारः परिपूर्यते स्म ॥ कृतिरियं पण्डितरामचन्द्र-गुणचन्द्रयोः ।
भद्रं भवतु श्री संघस्य ।
20
25
१. पृ० २०१।। २. पृ० २०२॥ ३. पृ० २०३ ।। ४. पृ० २०३ ।। ५. पृ० २०५ ।। ६. पृ० २०८ ।। ७. पृ० २१३।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org