________________
22
___द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः प्रदीपादेस्तमसादिभावो भावान्तरम् ।
प्रागभावाभाव एव भावोद्भवः, न प्रध्वंसाभावाभावे ।
अनर्पितसदनुवेधः पररूपनिषेधः प्रसज्यनअर्थः । अपेक्षितहेतवोऽपि विसभागक्षणादयोऽवश्यम्भाविनः । स्वहेतुभ्यस्तत्तद्धेतुयोगतस्तथा तथा परिणामिनो 5 भावाः । तेन्न विनाशाहेतुकत्वमपि निरन्वयनाशाय ।
सान्वयनाशित्वं चानुवृत्त-व्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् । न हि भेदाविशेषेऽपि घट-पटादिष्विव स्थास-कोशादिषु विलक्षणैव प्रतिपत्तिः, मृदेकत्वसंवेदनात् । न च मृदेकत्वेऽपि स्थास-कोशादीनामेकैव संवित्तिः,
आकारभेदसंवेदनात् । नापि सर्वस्य सर्वत्रास्खलितः प्रत्ययो भ्रान्तः । 10 लूनपुनर्जातकदलीस्तम्भादिष्वपि नैकान्तानन्वयो नाशः ।।
न चायमेकान्तक्षणिकेषूपपद्यते, अनुवृत्ताकारस्यापि भावात् । न चायं सदृशापरापरोत्पत्तितः, एकोऽयमिति भावात् । अन्यथा सदृशोऽयमिति स्यात् ।
तदनुभवसिद्धोत्पाद-व्यय-ध्रौव्यसमुदयः कायः । न चैवं विरोध:, असम्भवात्। तथैव प्रमाणभावाच्च । प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ।। 15 अविकलकारणस्य भवतोऽन्यभावेऽभावगतिः प्रमाणेन सहावस्थानानुपपत्तेरन्या का ? __ स्यादपि सदैव पृथगाश्रयोपलब्धानामेकाश्रययोजनायां विरोधसम्भावना । न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगाश्रयोपलब्धानि ।
अत एव नैकव्यवच्छेदेनाऽपरपरिच्छेदः । यत् पुनरुभयांशार्पणया एकशब्देन 20 वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः । तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः ।
अंत एवैकं सदसद्रूपमपि, स्वरूपाद्यैः सत् पररूपाद्यैरसत् । अन्यथा प्रतिनियतरूपाद्येव न स्यात् ।
नं च स्वरूपादिसत्त्वमेव विशिष्टं पररूपाद्यसत्त्वम्, अपरासत्त्वाभावे 25 वैशिष्ट्यस्यैवाभावात् ।
संदसद्रूपाद्धेतोरेव सदसद्रूपोत्पत्तिः, नोत्पन्नस्यासत्त्वेन परतो भेदः । १. पृ० १८३ ।। २. पृ० १८४ ।। ३. पृ० १८५ ।। ४. पृ० १८७ ॥ ५. पृ० १८७ ।। ६. पृ० १८८ ।। ७. पृ० १९० ॥ ८. पृ० १९४ ॥ ९. पृ० १९७ ॥ १०. पृ० १९७ ॥ ११. पृ० १९८ ॥ १२. पृ० १९९ ॥ १३. पृ० २०० ॥ १४. पृ० २०१ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org