________________
5
10
15
द्रव्यालङ्कारे तृतीयोऽकम्पप्रकाशः
तत्प्रदेशश्रेणयो दिशः, आदित्योदयास्तापेक्षया पूर्वापरादिप्रत्ययहेतुत्वात् । आत्मनि तु स्वरूपनिबन्धन एव I पूर्वस्यां दिशि द्रव्यमिति व्यपदेशाच्छ्रेणिकल्पनाऽवश्यंभाविनी । परमार्थैकदिग्निमित्तत्वे तु अस्खलितः पूर्वादिप्रत्यभेदो न स्यात् । तदाकाशदेशश्रेणय एव दिग्व्यवहारनिबन्धनम् । से च लोकालोकभेदाद् द्वेधा । गति- स्थितिमालोकः । तस्य असंख्येयभागादिषु परिणामभेदाज्जीवानामवगाहः । एकप्रदेशादिषु पुद्गलानाम् । धर्माधर्मयोः कृत्स्ने ।
अलोकोऽन्यः । न सतामात्मादीनामभावोऽनात्मा । गुणादयश्च द्रव्यवृत्तयः । परिशेषाद् द्रव्यमनन्तं नभः ।
धर्मादीनि एकद्रव्याणि, अक्रियाणां सर्वत्र एककार्योपलम्भात्, अचेतनानाममूर्तद्रव्यत्वेन वा । अमूर्तत्वं त्वपुद्गलरूपत्वादिति । येयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु || १ ||
६
इति सङ्ग्रहश्लोकः । कायः प्रदेशबाहुल्यम् । एकजीव - धर्मा -ऽधर्माणां सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् सदेशत्वम् । अन्यथाऽणोरिव तन्न स्यात् । सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् । देशाश्चासंख्येयाः, लोकाकाशव्याप्तियोग्यत्वादिति ।
20
आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् । अन्यथा सर्वावगाहिनामेकदेशत्वम्, एकदेशावगाढानेकपुद्गलवत् । एकत्रैव चाधेय20 स्वरूपभावा-भावौ स्याताम्, विभागादयश्च कस्यचिन्न स्युः । लोकाकाशमसङ्घयेयप्रदेशम्, शश्वदसंहरणधर्मकस्य सावधित्वात् । सर्वमनन्तप्रदेशम्, अलोकाकाशस्यानन्तत्वादिति । अनेकप्रदेशः स्कन्धः । भावांशैरणुः कायः ।
उत्पाद - व्यय - ध्रौव्याणि वा कायः, प्रतिक्षणमविकारिणोऽर्थक्रियाऽभावात्, 25 समर्थम्य सदा जनना-ऽजननप्रसङ्गात् । अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्ति:, तस्य कार्यविरोधात् । कार्योत्पत्तौ वा निवृत्तिः । उत्तरमपि वा जनयेत् ।
१. पृ० १४८-१४९ ।। २. पृ० १५२ ।। ३. पृ० १५४ ।। ४. पृ० १५५ ।। ५. पृ० १५६ ।। ६. पृ० १५७ ॥ ७. पृ० १५९ ।। “तथा च द्रव्यालङ्कारकारौ - 'आकोशोऽपि सदेशः, सकृत् सर्वमूर्ताभिसम्बन्धार्हत्वात्' इति" इति आचार्यश्रीमल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम्, श्लो० ९ ।। ८. पृ० १६१ ।। ९. पृ० १६१ ।। १०. पृ० १६२ ।। ११. पृ० १६२ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org