________________
19
अथ तृतीयोऽकम्पप्रकाशः । अथाऽकम्पानि । गति-स्थित्युपग्राहको धर्मा-ऽधौं । देशान्तरप्राप्तिहेतुः परिणामो गतिः । विरुद्धः स्थितिः । तत्पोषक उपग्राहकः । - एतयोः परिणामिनो भावेऽपि ज्ञानादेरिव चक्षुरादौ धर्मा-ऽधर्मयोरपेक्षा । न क्षित्यादौ, खगादेर्वियत्यपि भावात्, अणूनां च । न वायौ, तत्रापि भावात्। 5 न गतिपूर्वा स्थितिरधर्मे । क्वचिदभावेऽपि भावाच्च ।
नाप्याकाशे, लोकालोकविभागस्याभावप्रसङ्गात्, तस्य तन्निबन्धनत्वात् । जीव-पुद्गलसद्भावे कालस्यापि सद्भाव: स्यात्, तत्कार्याणां तत्रापेक्षणात् । न च तद्भावः, सावधित्वाल्लोकस्य । अन्यथा संस्थानाभावः ।।
तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनत्वे सर्वत्र तत्प्रसङ्गात्, 10 मुक्तेष्वपि भावाच्च, न हि तद्गति-स्थिती पुरुषानुपकुरुतः ।
नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । विशेषाव्यभिचारेऽपि सामान्यं व्यभिचारि । तदेव च पक्षः । गति-स्थितिमत्त्वाच्च ।
सदा सन्निधानेऽपि एतयोः स्वतो गति-स्थितिपरिणामिनामेवोपग्राहकत्वान्न सदा भावः ।
नं चैक एवोभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् । एक एव ह्यन्यतरस्तत्तत्प्रत्ययसन्निधानत: सुख-दुःखहेतुः स स्यात् ।
तत् सकृत् सर्वार्थगति-स्थित्यनुग्राहकौ लोका-ऽलोकव्यवस्थाहेतू धर्माऽधर्मास्तिकायौ सिद्धौ । आगमाच्च । अमूर्तत्वाद्यास्तद्धर्मा इति ।
अवगाहस्य दातृ आकाशम् । नियतस्य तदबहिर्भावोऽवगाहः । 20
न दातृत्वं क्षित्यादौ, तदभावेऽपि भावात् । न पवने, गरीयसा प्रतिस्खलनात्। सर्वेषामव्याप्यवगाहकत्वाच्च । ने मूर्त्ताभावे, निरुपाख्यस्य दातृत्वाभावात् । आकाशस्तु व्यापितमत्वादवगाह्य एव । तंत् सकृत् सर्वार्थावगाहदातृत्वादागमाच्चाकाशसिद्धिः ।।
-
15
25
१. पृ० १३५ ।। २. पृ० १३६ ।। ३. पृ० १३९ ।। ४. पृ० १४१ ।। ५. पृ० १४२ ॥ ६. पृ० १४३ ।। ७. पृ० १४३ ॥ ८. पृ० १४३ ॥ ९. पृ० १४५ ॥ १०. पृ० १४६ ॥ ११. पृ० १४७ ॥ १२. पृ० १४८ ।। १३. पृ० १४८ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org