________________
18
.
. द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः । तंदवायविषये सामान्यविशेषात्मनि शब्दसङ्केत: । सङ्केतितश्चाभिधेयः ।
एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता, परोक्षस्यैव शाब्दविषयत्वात् । यथा अनुमात्वाभेदेऽपि स्व-परार्थभेदः तथाऽत्रापि ।
तावत् सिद्धा प्रतीतिः । सा चेद् व्यधिकरणादपि भवति, को विरोध: ? 5 यथोपेयदर्शनं ह्यौपयिकक्लृप्तिः । न तु व्यत्ययः । अत एवानुमातोऽपि भिद्यते इति ।
यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥१॥ अशुद्धजन्यं स्वापादौ नार्थं तूज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ॥२॥ सदृशा-ऽसदृशग्राह्यग्राह्यवायः प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥३॥ नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥४॥ इति सङ्ग्रहश्लोकाः ॥
10
इति द्रव्यालङ्कारे पुद्गलप्रकाशो द्वितीयः प्रकाशः ।।
१. पृ० १२४ ॥ २. पृ० १२४ ॥ ३. पृ० १२९ ॥ ४. पृ० १३०-१३१ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org