________________
16
द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः अव्यक्तासन्मात्रग्रहाद् विशेषावसायो भिन्नगोचरः प्रमाणम् । नेत्रमुन्मीलयत: सन्मात्रावगमोऽनुभवसिद्धः । - न च क्षयोपशमाधीना छद्मस्थधीर्वस्तुभाविताऽपि यथावस्तु । अनन्तात्मनः कियदग्रहोऽप्यदोषाय ।
तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव । अन्यथाऽनुगतव्यावृत्तबुद्धि-शब्दावपि न स्याताम्, एकरूपत्वात् ।।
एकार्थक्रियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्दहेतवः । तत्कार्यावधिः समानपरिणामस्तत्राऽप्यस्ति । क्रिया अपि विलक्षणा नैकत्वहेतवः । तथा चैकः परामर्शोऽप्यसिद्धः । निवृत्तपाकादौ पाचकादौ ज्ञान-शक्त्यपेक्षौ बुद्धि-शब्दौ ।
प्रधानादिकार्यरूपौ तु संकेत-व्यामोहनिमित्तौ, तदभावेऽभावात् । अध्यक्षतो वस्तुमात्रावगमात् ।।
वृक्षादिषु स्वत: सर्वस्य समानपरिणामावगमः । शब्दः संकेतमप्यपेक्षते, क्षयोपशमान्यथानुपपादात् । 15 नं चायं भ्रान्तः, सर्वत्राऽस्खलितत्वात्, निबन्धनाभावाच्च ।
अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति । वासनाहेतुर्न सर्वत्र स्यात्, व्यामोहासम्भवात् । तदयं शाश्वतिको निर्भासो बाह्यसदृशपरिणतिनिबन्धनः प्रमाणम्।
तुल्यज्ञानगोचरो वस्तुभावः समानपरिणाम: स सामान्यम् । अन्यो विशेषः । 20 तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भूतौ । अत एवाविरोधः ।
प्रतिव्यक्ति भेदाविशेषेऽपि अनयोर्भिन्नधीहेतुत्वम्, सामर्थ्यवैचित्र्यात्, घटोदञ्चनादिवत् ।
अनुगतैकसम्बन्धनिबन्धना तु धीस्तद्वन्त इति स्यात्, भूतवत् कण्ठे गुणेन । न हि सम्बन्धिनाऽपि अन्येन अन्ये समाना नाम । सङ्खयादिमन्तोऽपि 25 स्युः । अभिन्नाभिधानप्रत्ययहेतुत्वमपि समवायनिमित्तम् ।
न च यथारूपमन्यधी:, वर्णादिग्रहणपरिणामसंवेदनात् । १. पृ० ९५ ॥ २. पृ० ९५ ॥ ३. पृ० ९६ ॥ ४. पृ० ९७ ॥ ५. पृ० ९८ ॥ ६. पृ० ९८ ॥ ७. पृ० ९९ ।। ८. पृ० १०० ॥ ९. पृ० १०० ।। १०, पृ० १०१ ।। ११. पृ० १०३ ॥ १२, पृ० १०४ ।। १३. पृ० १०६ ।। १४. पृ० १०७ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org