________________
15
10
द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः कादाचित्कौ तूपादानादपरमपेक्षेते । न चातत्त्वार्थविभागप्रणयनप्रयास: श्रेयान्। अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा । न खलु ध्यानशतैरपि भाविता: मरीचिका: पयसीभवन्ति । तदर्थ एव सर्वं साधीयः ।
स द्रव्याद्याहितविश्वशक्तिः क्रमाक्रमाभ्यां सातासातोदयक्षयहेतुः । सदसद्रूपते अपि यत्रैकत्र कस्तत्रान्यानवसरः ?
अत एवाणोरेकस्य षडंशतापि । भावभेदेऽप्येकत्वमविरोधि, स्यादभेदात् । अणुत्वं च, अल्पतराभावात् । तन्निबन्धनः स्कन्धोऽपि एकानेकात्मकः । तत् नानारूपत्वात् क्रमज्ञानं नानारूपसन्तानजन्यम्, अन्यथाऽहेतुत्वमपि ।
न चावस्तु प्रतिभासः, विकल्पस्य सम्यगनुभवत्वात् अदुष्टेन्द्रियजत्वात् तदविनाभावात् । क्वचिदविकल्पस्यापि व्यभिचारः ।।
न चार्थस्य स्मृत्यादिव्यवधा, आविष्टाभिलापस्यास्य यथासङ्केतक्षयोपशममुपादानभेदादुत्पादात्, अन्तर्बहिर्भाषाद्रव्येभ्योऽपि वा ।
अवहितेन्द्रियस्य बोधात् तत्त्वम् । अर्थात् तद्ग्रहणपरिणतिः । भाषाद्रव्येभ्यः 'अहिरहिः' इत्यभिलापोल्लेखः । अन्यथा स्मृतावपि स न स्यात् ।
उच्चार्यमाणो ध्वनिस्तजन्मा अन्य एव । स एव च श्रावणः । न चास्य स्वरूपमेव भ्रान्तिहेतुः, अविकल्पस्यापि प्रसङ्गात् । पूर्वदृष्टैकत्वग्रहेऽपि अर्थोत्पत्तिस्तुल्या, वस्तुनस्त्रिकालान्वयस्य सद्भूतत्वात्।
न च पूर्वदृष्टत्वग्रहादेवातीतगोचरत्वादयः, नोइन्द्रियजस्यैव सामर्थ्यात् । इन्द्रियं हि रूपाद्याभास इव भेदान्तरेऽपि समर्थम् ।
स्पार्शनादौ तु स्मार्को वर्णाद्याभासः, अस्पष्टत्वात्- ऐन्द्रियस्य स्पष्टत्वात्- 20 अनुभवाभावेऽभावाच्च । आशुभवनादेकत्वभ्रमः ।
निश्चयात्मकत्वेऽपि अवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याद्यपेक्षयाऽल्पशक्तित्वात् । धूमो देशादिभेदैरवच्छिन्नं वह्निं गमयति, इन्द्रियं साक्षाद् बहुतरविशेषैः ।
क्षयोपशमादेव च क्रमः-जनकाध्यापकं पश्यन् जनकत्वं निश्चित्य 25 अध्यापकत्वं निश्चिनोति ।
15
१. पृ० ७८ ।। २. पृ० ७९ ॥ ३. पृ० ८१ ॥ ४. पृ० ८२ ।। ५. पृ० ८४ ।। ६. पृ० ८६ ।। ७. पृ० ८७।। ८. पृ० ८८ ।। ९. पृ० ८९ ॥ १०. पृ० ९०॥ ११. पृ० ९१ ।। १२. पृ० ९२ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org