________________
14
-
10
__ द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः मूर्तगुणम् । स च पौद्गलिकः, विधि-स्वातन्त्र्याभ्यां बाह्येन्द्रियग्राह्यत्वात् । तच्छब्दो द्रव्यं पौद्गलिकम्।।
तमोऽपवर्तकः स्कन्ध उद्द्योतः, बाह्येन्द्रियग्राह्यद्रव्यत्वात् पौद्गलिकः । प्राणा-ऽपानादयोऽप्येवमिति । .
स्पर्श-रस-गन्ध-वर्णा अन्योन्यमविनाभुवः । मूर्तिस्तदङ्किता ये ते पुद्गला द्विविधाश्च ते ॥१॥ अणुः स्कन्धश्च तत्राणुराद्यं स्कन्धनिबन्धनम् । द्रव्यतो भागनिर्मुक्तो भावतो भागवानपि ॥२॥ तत्संघात-विभेदोत्थ: स्कन्धो व्यण्वादिरंशवान् । विचित्रभावोऽध्यक्षश्चोभृताध्यक्षत्वयोगतः ॥३॥ मनस्तमःशब्दोद्द्योता: स्कन्धस्यैव प्रभित्तयः । पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः ॥४॥
इति संग्रहश्लोकाः ॥ स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः । स च संवेदनात् । तदेवार्थग्रहः। 15 क्षयोपशमानुभावतः परिच्छेदावक्तृप्तिः, प्रतिकर्म विक्रियाभेदात् ।।
स्वप्नादौ तु प्रमाणाभासम् । शुद्धहेतुजं तु प्रमाणमर्थाविनाभाव्येव । कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति । न ह्याग्दृशो वृत्ति: सोपप्लवेति योगिनोऽपि । तद् व्यभिचारेऽपि नार्थाभावः ।
सहोपलम्भनियमोऽपि उभयोः सहभावनियमायाऽस्तु, न भेदाभावाय, 20 विच्छिन्नग्रहणसंवेदनात् । तथाप्यभावे ज्ञानाभावोऽप्यस्तु, 'सह'ध्वनेरुभयनिष्ठत्वाच्च । प्रमाणान्तरसिद्ध परमार्थाभेदे कल्पितभेदे विषयत्वं स्यात् ।
एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ? एकस्याप्यनेकग्रहणाविरोधात् ।
तावद् भेदेऽपि रूपादीनां सहनियमोऽस्ति, मा भूत् सर्वस्यापि, इति स्वभावविशेषादसौ । तत एवैकोपलम्भनियमोऽप्यस्तु । |दो हि 25 सामग्रीभेदमञ्जसाऽनुरुणद्धि । उपलम्भनियमस्तु ज्ञानस्वसंविदितोत्पत्तिकृतः ।
अन्यथा भ्रान्तेतरास्थितिः, निबन्धनाभावात् । सक्लेशसन्तते रपि विभागोऽस्ति। वासनासन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् । १. पृ० ५९ ॥ २. पृ० ६२ ॥ ३. पृ० ६३ । ४. पृ० ६५ ।। ५. पृ० ६७ ।। ६. पृ० ६९ ॥ ७. पृ० ७०॥ ८. पृ० ७२ ॥ ९. पृ० ७६ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org