________________
13
द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः सा स्यादवयवाभेदिनी द्रव्यम् । एकान्तभेदे का तेषु तद्वृत्ति: ? समवायः। सा कथं न नभसि ? अजनकत्वात् । तर्हि अग्नौ धूमस्याऽस्तु । न, असमवायिकारणत्वात् । असमवायिनिबन्धनस्तद्भावः कथं न तस्य ?
तथापि नांशेन, अनंशत्वात् । सर्वात्मनापि, तच्छून्यतापादात् बहुत्वप्रसङ्गाच्च। अनंशस्य अंशानंशकल्पनावद् वृत्तेरप्ययोगः, एकान्तभेदिवृत्तेस्तद्व्याप्तेः । 5 अधिकोत्पत्तौ च तुलानतिविशेष: स्यात्, उपलक्षणं च, महत्त्वात् उपलभ्यत्वात्। गुरुत्वं च, पतनधर्मकत्वाद् गुणानां गुणान्तरारम्भाच्च । जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिबध्नन्ति, पतनस्खलनदर्शनात् । नैवमवयविनः । यदा त्वणव एव तथा परिणमन्ते तदा न दोषः ।
तंदयमवयवेभ्यः स्यादभिन्नः । अत एव एकत्वा-ऽनेकत्व-कम्पा- 10 ऽकम्पाद्युपपद्यते। तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् ।
मनस्तम:शब्दोद्योतादयस्तभेदाः । भावमनोहेतुः करणविशेषात्त: स्कन्धो मन: अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौद्गलिकम्, अन्यथा स्पर्शवत्त्वाभावेन तदभावः । मूर्तकरणत्वाच्च चक्षुरादिवत् । अतश्च स्पर्शवत् । न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्मा 15 अस्पर्शवान् । विभुत्वं च स्यात्, अचेतनास्पर्शद्रव्यत्वात्, निष्क्रियत्वं च । तद् मनः पौद्गलिकम् ।
विकल्प उपादानप्रत्ययापेक्षः, प्रतिनियतविषयज्ञानत्वात्, चाक्षुषादिवत्, प्रत्ययश्च मनः । अन्यथाऽतिप्रसङ्ग इति ।
तेजसैवाऽपवर्त्यः स्कन्धस्तम: । पौद्गलिकत्वं तु विधि-स्वातन्त्र्याभ्यां 20 चक्षुाह्यत्वात् । स्पर्शवत्त्वेऽपि परिणामभेदात् प्रदीपप्रभावदप्रतिघात: । रजोवत् स्पर्शानुपलम्भोऽपि खण्डादर्शनं च । न च भाऽभावः, अल्प-कृष्णमहत्त्वप्रतिभासायोगाद् विधिग्रहाच्च । अत एव नालोकादर्शनम् । न चानाश्रयो गुण: । नाप्यारोपप्रत्ययोऽस्खलितः सर्वभावी वा । तत् पौद्गलिकं तम इति।
वाग्योगनिसृष्टः स्कन्धः शब्दः संघात-भेदजो वा । बाह्येन्द्रियविषयत्वाद् 25 गन्धादिवद् नाकाशगुणः, आकाशगुणत्वाभावेन व्याप्तत्वात् । गुणत्वे च व्यापित्वम्, व्योम्नो निष्प्रदेशत्वात् । परोक्षत्वादनुपलम्भो वा । न चामूर्त
१. पृ० ३७ ।। २. पृ० ३९ ।। ३. पृ० ४३ ।। ४. पृ० ४५ ।। ५. पृ० ४९ ।। ६. पृ० ५० ।। ७. पृ० ५६-५७।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org