SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ द्रव्यालङ्कारे द्वितीयः पुद्गलप्रकाशः आत्मनां चैतन्यं वा, अत्र वैसदृश्यानर्पणेति । सममेकत्र चतुर्धा सत्त्वेऽप्युद्भूतस्य ग्रहः, स्पर्शाविनाभावित्वात् । अत एव सजातीयत्वे पृथिव्यादीनां परस्पररूपपरिणामः, न हि ज्ञानमर्थरूपतामुपयच्छते। लवणमभ्मः, दारुस्तेजः, तेजो भस्म तमो वेति । न च प्रत्येकं स्पर्शादयः पुद्गला एव, सप्रतिघत्वात् । अस्पृष्टस्याऽप्रतिघाताज्ज्ञानवत् । तदिमे स्पर्शादयोऽन्योन्याविनाभाविनोऽपुद्गलाः। औदारिकादिभेदेनाऽनेकविधाः पुद्गलाः । द्वेधाऽपि अणव: स्कन्धाश्च । आद्यः स्कन्धपरिणामिहेतुर्द्रव्यतोऽनंश: परमाणुः । स युगपदविरुद्धद्विस्पर्शः, अन्यतरैकरसादिः । तत्संघातभेदजो व्यणुकादिः सांशः स्कन्धः चतुरष्टस्पर्श10 पञ्चरस-वर्ण-द्विगन्ध उद्भूताध्यक्षत्वश्चन्द्रियकः । एकत्वपरिणामोन्मुख्यप्रकर्षपर्यन्त: संघात: । स व्याद्यधिकगुणेन स्निग्धस्य रूक्षस्य वा । विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य । अधिकगुण: परिणमकः, समगुणः परिणम्योऽपि । भेदो विश्लेषपरिणामः । कथञ्चिदत्यक्तरूपाणां घनादिभावेनैकत्वपरिणतिः स्कन्धः । सत्त्वो15 पचयाभावेऽपि तथाभावो न विरुद्धः, तुल्यमानयोरपि हि वज्र-भेण्डयोरल्पमहत्त्वादिदर्शनात् । तथाप्युत्पाद-व्यय-ध्रौव्याणि पूर्वपर्यायक्षयात् तक्रियासिद्धेः । उत्तरपर्यायश्चोत्पद्यते । तदेव च द्रव्यं तथा परिणमते । न चैते तदाप्यनेकत्वपरिणतय एव, धरणा-ऽऽकर्षणभावात् । अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ? वासनातः, रूपादिभेदोऽपि तत एवास्तु । अर्थं 20 तु साधयिष्यामः । नाकल्पिकायां भेदकालुष्यम् । न तर्हि विकल्पिकायामपि, अगृहीते कल्पनाऽभावात् । प्रमाणं हि स्यात् । अस्वलक्षणत्वेऽन्योन्याश्रयः । अधिकार्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ? कथं चातीन्द्रियाणामविकल्पसंविदि तदापि प्रतिभास: ? भेदोत्पत्तेः । कदा 25 पुन: क्षणिकेष्वियं नास्ति ? वैशिष्ट्यं तु स्थूलताया अन्यन्न विद्मः । तदग्रहे तदग्रहात् तयोरभेदः, न, रसेन व्यभिचारात् । तदस्ति तेषां तदैकत्वपरिणतिः । १. पृ० १४ ॥ २. पृ० १७ ।। ३. पृ० १८ ॥ ४. पृ० २३ ॥ ५. पृ० २६-२७ ॥ ६. पृ० २९ ॥ ७. पृ० ३० ॥ ८. पृ० ३३ ।। ९. पृ० ३६ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy