________________
अथ द्वितीय: पुद्गलप्रकाशः ।
-वर्णा मूर्तिः ।
मूर्तिमन्तः पुद्गलाः । स्पर्श-रस- गन्धसंस्थानं तु व्यभिचारि, धर्मा-धर्म- मुक्तात्मनां लोक-शरीरसंस्थानत्वात् । स्पर्शनेन ग्राह्यः परिणामः कठिनादिरष्टधा स्पर्शः । प्रायोऽनमनस्य हेतुः कठिनः । सन्नतेर्मृदुः । अधोगतेर्गुरुः । तिर्यगूर्धगतेर्लघुः । काठिन्या - sपाकयोः s शीतः । मार्दव - पाकयोरुष्णः । चिक्कणत्वा ऽचिक्कणत्वे स्निग्ध- रूक्षाविति । रेसनेन तिक्तादिः पञ्चधा रसः कफशान्तेस्तिक्तः । पाटवस्य च कटुः । रक्तदोषादिशान्तेः कषायः । आस्रवण- क्लेदनयोरम्लः । ह्लादन - बृंहणयोर्मधुरः । लवणो मधुरान्तर्गत: संसर्गजो वेति ।
11
८
घ्राणेन सुरभ्यादिर्द्वधा गन्धः । औन्मुख्यस्य सुरभिः । वैमुख्यस्यासुरभिरिति । 10 चक्षुषा कालादिः पञ्चधा वर्णः । उद्वेगस्य कालः । रौद्र - क्षोभयोर्लोहितः । प्रसादस्य शुक्लः । दृशोर्नीलः । विघातस्य पीतः । संयोगजः सारङ्गः । इति मूलभेदाः ।
तद्भावः परिणामः । द्रव्यानुवृत्त्या न पूर्वोत्तरावस्थयोरेकान्तभेदः । अत एव न सांकर्यम् । परिणाम - परिणामिनोः स्यादभेदः । अत एव स्यादेकत्वा - 15 ऽनेकत्व-नित्यत्वा-ऽनित्यत्वानि । एतौ चोपलब्धिलक्षणप्राप्तावुपलभ्येते ।
बीजानि धान्यत्वेन परिणम्य भौमं तप्तायस्पिण्डवदौदकं च रसं बालका इव सवित्रीस्तन्यमाहरन्ति किसलादिभिः परिणाहीभवन्ति । दुग्ध-धी तापाभितप्तानि स्फारीभवन्ति ।
स चायं परिणामः कश्चित् सदृशेतरः - बालादीनां कुमारादिभावः स्थूलादीनां कृशादिभावो वा, अत्रोभार्पणा । कश्चिद् विसदृश: - नारकादीनां मानवादिजन्म घटादीनां कपालादिभावो वा, अत्र सादृश्यानर्पणा । कश्चित् सदृशः सर्वेषामस्तित्वम् *. अत्रेदमादाववधेयम्- द्रव्यालंकारमूलसूत्राणि ग्रन्थकाराभ्यामादौ रचितानि । तदनन्तरं तत्र किञ्चित् संशोधनं ताभ्यामेव विहितम् । ततः परमपि यदा टीकाया अन्तिमं स्वरूपं ग्रन्थकाराभ्यां निर्णीतं तदापि टीकायां भूरितरं संशोधनं ताभ्यां विहितम्, मूलेऽपि किञ्चित् परिवर्तनं कृतम् । अतोऽत्र यत् प्राक्तनं रूपमासीत् तदत्र P.K.D. अनुसारेण उपन्यस्यते । यत्तु ताभ्यामन्तिमं स्वरूपं निर्णीतं तत् सटीकस्य द्रव्यालंकारस्य द्वितीय - तृतीयप्रकाशयोः पृ० १ २१६ मध्ये वर्तते ।
तो ये केचन पाठभेदास्ते परस्परं तुलनां विधाय ज्ञातव्याः । यो योऽत्र निर्दिष्टः पाठो यस्मिन् यस्मिन् पृष्ठे सटीके द्रव्यालङ्कारे वर्तते तदत्र टिप्पणेषु निर्दिष्टमस्ति । १. पृ० १ ।। २. पृ० ३ ॥। ३. पृ० ५ ।। ४. पृ० ६ ॥ ५. पृ० ७ ।। ६. पृ० ८ ।। ७. पृ० १२-१३ ॥
Jain Education International 2010_05
For Private & Personal Use Only
20
www.jainelibrary.org