________________
10
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः चेतनावतः कर्तृत्वं काययोगं व्यभिचरति, कुलालादिषु तद्व्याप्तेः । नियतकर्तृत्वमुपाधिरिति चेत्, न, साधनस्यापि व्यापनात् । ईश्वरस्यापि यथाशक्ति करणात् । अन्यथा विश्वानियतरूपस्य षष्ठभूतादेश्च जननप्रसङ्गः ।
अनित्यज्ञानादियोगोऽपि समः । नित्यं चेच्चोक्तप्रायम् । 5 न च शुभाशुभविभागकारिणो न रागादिसंभवः । कार्याधिगम्या
अतीन्द्रियवृत्तयः । मध्यस्थे तदभावात् । दुःखस्वरूपत्वात् तत्त्वादिस्वतन्त्रनिर्दोषप्रेक्षावदनुत्पाद्यमिति बाधकाद्वेति ।
तदेवं प्रसिद्धे सर्वविदि तद्वचनात् पृथिव्यादेश्चेतनत्वसिद्धिः ।
त्रसास्तु तथा साधिता एव । ततः षट् । एकस्यानेककायव्यापित्वे 10 विश्वसुखाद्यनुभवप्रसङ्गः । अन्यानुभवादावन्यस्य स्मृत्यादि स्यात्, वार्धक इव, समं बन्धमोक्षौ च । न च कल्पना परमार्थहेतुः । व्योम्नोऽपि स्वतः सप्रदेशता।
जीव-परमात्मभेदोऽप्यद्वैतमुपहन्ति । न च परमात्मता विश्वाभेदबुद्धिहेतुः । शुद्धस्य तदयोगात् । कथं च जीवात्मानोऽसिद्धस्तदाश्रयः ? । तदात्मानः स्वतोऽनन्तभेदिनोऽपि सामान्योपाधिभेदात् षट् । स्वतो भेदिनस्त्वनन्ता: सिद्धा 15 इति ।
यदा प्राणादिमान् काय: सिद्ध एकेन लाञ्छितः । निर्विवादं तदा सिद्धाः सर्वाः स्मृत्यादिसम्पदः ॥१॥
इति संग्रहश्लोकः । इति द्रव्यालङ्कारे प्रथमो जीवप्रकाशः ।
१. ईश्वरः सशरीरी, चेतनावत्कर्तृत्वात्, कुलालादिवत् - टि० ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org