________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः घनश्यामाकरोहिकन्दोद्भवा रम्भा पाण्डुरच्छविरस्थूलस्तम्बा च बीजोद्भवा। साक्षाद् हेतुभेदो भेदक इत्यभेदेऽपि न दोषः । अशक्यनिश्चयो वा । अन्यतोऽपि गौरवादेः कृत्रिमा-ऽकृत्रिमाणामिव मणि-मुक्तादीनाम्, नीलानीलसुमनसो: सर्पयोः पुष्पात्, वन्ध्यावन्ध्ययोः कर्कोट्योः फलात्, वन्यावन्ययोः त्रपुसयो रसात्, स्पर्शोपयोगभ्रंसिन्योर्हरीतक्योः प्रभावात् । तस्मान्न सुविवेचिताकारभेदं कार्यं कारणं 5 व्यभिचरति । नैवं वक्तृत्वम् । ततो यथोदितप्रमाणवृत्तेः सिद्धः सर्ववित्।
प्रमाणपञ्चकादस्मिन्नाप्ते सिद्धे प्रपञ्चतः । अजडात्मा निषेधाय प्रयत्नं विदधीत कः ॥१॥ प्ररूढमपि रागादि स्वहेतुपरिपन्थिनि । पुष्टिं प्रयाते प्राप्नोति क्षयं हेतुक्षयान्मुहुः ॥२॥
इति संग्रहश्लोकौ । न चैवमीश्वरोऽपि साधकाभावात्, कार्यत्वं परिणामि कारणं कर्तृत्वेनाकर्षति, अन्यस्य तद्बुद्ध्यैव व्यभिचारात् । परिणामिकारणाद् 'भिन्नस्यैव बुद्धिमतो घटादावुपलम्भः ।
न चैकरूपायां कादाचित्की सृष्टिः संहारो वा । तथापि कथं स्थिति: ? त्रितये 15 तूत्पाद-व्यय-ध्रौव्यं युगपदायातम् । भिन्नविषयत्वे त्वेकान्तः अनिबन्धनस्तथा विवर्ती न क्वचित् कदाचित् कस्मिन्नेव स्यात् । तन्निबन्धनोऽपि तथैव तस्यैकरूपत्वात्। कार्यं च स्यात् ।
न चासत्सु सहकारिष्वपेक्षा । तत्सत्तामात्रनिबन्धनाश्च कदाचिन्न स्युः । तत्राप्यपेक्षायामनवस्थितिः । कालादयोऽपि नित्यसन्निहिता एवेति कुत: 20 कादाचित्कत्वम् ? ।।
तस्मात् सा बुद्धिमतः कर्तुर्विनाप्युत्पद्यमाना कार्यतां परिणामिन्येव हेतौ नियमयति ।
स्वातन्त्र्यमात्रानुविधायी कर्तृव्यपदेशोऽपि ष(ख)ड्गादिवाविरुद्धः ।
एवमचेतनत्वादयों दूष्याः । न चेतनाधिष्ठितेषु तदधिष्ठितत्वम् । न च 25 १. क्षित्यादि बुद्धिमत्कर्तृकं कार्यत्वात् घटवत् इति तत्साधकमस्तीत्याशङ्कयाह- कार्य० । कार्यत्वं हि उपादानकारणसत्तया व्याप्तम् । ततः कार्यतया स्वीकृतं क्षित्यादि पुद्गलस्कन्धादिरूपमुपादानकारणमाकर्षति । न च परिणामिवस्तुव्यतिरेकेण क्वचिदुपादानभावः, तेनोपादानं परिणामिकारणाम] - टि० ॥ २. अन्यस्य बुद्धिमत्कर्तुरीश्वरस्य - टि० । ३. पृथग्भूतस्य -टि० ॥ ४. हेतवः आदिशब्दात् - टि० ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org