________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः
आगमोऽप्यस्ति स्वर्ग- केवलार्थिना तपोध्यानादि कर्तव्यमिति । न चान्यत् केवलात् तद्व्यपदेशहेतुः । तत्सिद्धेर्नेतरेतराश्रयः ।
न च तत्प्रणीतत्वादेवाप्रामाण्यम्, विरुद्धत्वाद् रागादिक्षयात् । वचनं त्ववश्यवेद्यतीर्थकनामकर्मोदयात् वेदनौपयिकत्वात् तस्य भवोपग्राहि5 कर्मक्षयापेक्षणाच्च । तथापि वीतरागोऽभिष्वङ्गाभावात् । अकर्तृकगिरामसंभवाच्च । उपलभ्यानुपलभ्यो ह्यनित्य एव । यच्च यद्धेतुकमन्वय - व्यतिरेकावधृतं तादृशमदृष्टहेतुकमपि तादृशहेतुकम्, यथा धूमः । अन्यथा ततः सकृदपि उत्पादायोगः ।
न च वैदिक-लौकिकयो र्वर्णादिभेदोऽस्ति, सर्वप्रकाराणां पुरुषै: 10 शक्यक्रियत्वात् । यथा च रागादिपरीतो मृषाभाषी दृष्टस्तथा वैराग्यादिगुणयुक्तस्तथ्यवाक् । अतः पुरुषाश्रये वचस्तथ्यातथ्यते । स निवर्तमानस्तेऽपि निवर्तयति इति आनर्थक्यं स्यात् ।
तद् वाक्यत्वादेः पौरुषेयो वेदः । अतः कारणसाद्गुण्यादेशदेशासंवादाद्वा (?) ऽर्हत्प्रणीतं प्रमाणमिति तेन सिद्धिः ।
कथं पुनर्वक्ता वीतरागो विवक्षाऽविनाभावित्वात् ? । का गतिः सुप्तमत्तयोस्तत्सत्तायां वेदनापत्तिः । न हि निश्चयधियोऽप्रतिसंविदिता एवोदयन्ते व्ययन्ते च । येन सन्त्योऽप्यनुपलक्षिताः स्युः । अन्यतो अन्यदर्शनाच्च । विवक्षाभावेऽपि चानभिष्वङ्गरूपा रागादयः मध्यस्थगिरामभावात् । आत्मनि तत्सहचारिणामनुमायां वर्णादिभिः किमपराद्धम् ?
20
व्यभिचारोऽन्यत्राप्यनिवार्यसंशयः । कथं पुनरात्मस्वभावा अपि ते व्ययन्ते ? न चात्मभावो मा भूत् सर्वो वीतराग इति । यथा चामीकरादिषु । दृश्यन्ते क्षार-मृत्पुटपाकादिभिरपेतमलाश्चामीकरादयो विशुद्धिभाजः । उपरञ्जकत्वं तु तुल्यमेषामपि निसर्गशुद्धत्वाद्यपि तत् समम् ।
तत्प्रक्षये किमौपयिकं तत्कारणविरुद्धाभिगमः गुण-दोषैकान्तग्रहस्तत्प्रभवः 25 विरुद्धो नैकान्तग्रहः ? असावौदासीन्यं जनयति तत्प्रकर्षो वीतरागत्वमिति । अस्तु तर्हि वक्तृत्वादस्मदादिवदसर्वज्ञः, न, अन्यथानुपपन्नत्वस्याभावात् । वह्निगमकत्वं तु धूमस्य तज्जन्यत्वात् तमन्तरेण च भवन्नहेतुकः, अन्यादृशाद् भवतस्तादृशत्वमपि कुतः ? कथं तर्हि शृङ्गादेः शराद्युत्पत्तिः ? । न हेतुभेदेन रूपभेदात् ।
15
8
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org