________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः न भवेदप्येकरूपस्य भोक्तव्यम्, एकान्तसुखितत्वादिप्रसङ्गात् । जन्मिनां च चित्रा दशा: । उभयरूपत्वे समनुभूति: स्यात् । अनुभूतिरप्यक्षतस्य कथम् ? अनु विरोधेन स्थितस्य चान्यस्य कुतः समुन्नति: ? यदा तु स एव तत्तत्कर्मोपाधिसम्बन्धान्तर इव नानारूपाण्युपयच्छति तदा सर्वमप्यसंरम्भमुपपद्यते।
अतिप्रसङ्गानाकृतं कर्म फलतीति कर्तृत्वमपीति ।। तदात्मा स्यान्नित्यः स्वकायमात्र: स्वतश्चिद्रूपः स्वकृतकर्मभोक्ता च सिद्धः।
तत्र संसारिणः षोढा पृथिव्यम्बु-तेजो-वायु-वनस्पति-त्रसभेदात् । छेदे च समानधातूत्थानादप्रतिहता भूरर्थोऽङ्करवत् सात्मिका ।
भौममम्भोऽपि क्षतभूसजातीयस्वभावसंभवात् शालूरवत् । आन्तरिक्षमपि अभ्रादिविकारे स्वतः सम्भूय पाताद् मत्स्यादिवत् ।।
10 तेजोऽपि आहारोपादानेन वृद्ध्यादिविकारोपलम्भात्, पुरुषाङ्गवत् ।
वायुरप्यपरप्रेरितत्वे तिर्यग्गतिमत्त्वात्, गोवत् । वनस्पतिरपि छेदादिभिम्र्लान्यादिदर्शनात्, पुरुषाङ्गवत् । केषाञ्चित् स्वापा-ऽङ्गनोपश्लेषादिविकाराच्च। अपकर्षवतश्चैतन्याद् वा आप्तवचनाच्च ।।
ननु सोऽप्यसिद्धः, प्रत्यक्षादेरवर्तनात् । न वै पिशितचक्षुषामदृष्टिरत्यन्ताभावाय। 15 विप्रकर्षिणामदृष्टावपि सत्त्वसंभवात् । क्वचिदभावेऽपि न क्षतिः । न चाशेषाविषयत्वे प्रमाणमस्ति । परेषां परोक्षत्वात् । अन्यथा तत्सिद्धिरेव । न च(चा?)व्यापकनिवृत्त्याऽन्यनिवृत्तिः, अतिप्रसङ्गात् ।। ___ अनुमानाभावस्त्वसिद्धः, पुद्गलानां प्रत्यक्षकार्यपरिणामिकारणत्वेन कस्यचिदपि प्रत्यक्षत्वात् । न्यथा तत्त्वहानिः । कार्यधर्माणां कारणेषु सत्त्वेन 20 व्याप्तत्वात् । क्वचिदसर्वज्ञे वा गौणः सर्वज्ञशब्दो मुख्यमाकर्षति । अन्यथा गौणत्वहानिः, स्खलत्प्रत्ययजनकत्वस्य स्वविरुद्धव्याप्तत्वात् । १. तुलना- “पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्- यथा सात्मिका विद्रुमशिलादिरूपा पृथिवी, छेदे समानधातूत्थानात्, अर्थोऽङ्कुरवत् । भौममम्भोऽपि सात्मकम्, क्षतभूसजातीयस्य स्वभावस्य संभवात्, शालूरवत् । आन्तरिक्षमपि सात्मकम्, अभ्रादिविकारे स्वतः संभूय पातात्, मत्स्यादिवत् । तेजोऽपि सात्मकम्, आहारोपादानेन वृद्धयादिविकारोपलम्भात्, पुरुषाङ्गवत् । वायुरपि सात्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्त्वात्, गोवत् । वनस्पतिरपि सात्मकः छेदादिभिर्लान्यादिदर्शनात्, पुरुषाङ्गवत्, केषाञ्चित् स्वापागनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः, आप्तवचनाच्च।" इति मल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम् २९ तमश्लोकटीकायाम् । २. चैतन्यं क्वचिदात्मनि परमापकर्षवत्, अपकृष्यमाणविशेषत्वात्, परिमाणवत् । यत्र तदपकर्षपर्यन्तस्ते एकेन्द्रियाः स्थावरा इत्याह- अप० -टि०। ३. पुद्गलाः कस्यचित् प्रत्यक्षाः, प्रत्यक्षकार्यपरिणामिकारणत्वात् तन्त्वादिवत् इत्यनेनानुमानेनाऽस्य सिद्धेः । हेतुरस्तु साध्यं न भावीति विपक्षे बाधकाभावादनैकान्तिको हेतुरित्याशङ्कयाह-अन्य० - टि०। ४. विपर्यये-टि०॥५. आप्तसाधकमनुमानान्तरमाहक्वचीति - टि० । ६. क्वचिदसर्वज्ञे सर्वज्ञशब्द उपचर्यमाणो मुख्यसर्वज्ञापेक्षः, गौणत्वात्, माणवकेऽग्निवत् ।। अव्यभिचारी मुख्योऽविकलोऽसाधारणोंऽतरंगश्च । विपरीतो गौणोऽर्थः सति मुख्ये धीः कथं गौणे॥-टि०। ७. उक्तं च- नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमति: क्वचित् । तत: पूर्वानुसारित्वाद् भ्रान्तिरभ्रान्तिपूर्विका - टि०||
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org