________________
10
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः महत्स्वभावमजहत् परिमाणेनाणुसदृशम् । स्फटिकोऽपि तावत् शुक्लिमानमपहाय शोणिमानं धत्ते, उपलत्वमविरुद्धं तु नापैति । तद्वद्वस्तुत्वन(म?)स्तु सदृशभ्रातरीव कदाचिद् धियामर्थधीरपि स्यात् । तत्फलार्थं च प्रवर्तेत च यदि बिम्बानेकत्वं
सत्यमतो बाह्ये तथा स्थिति: । अन्यथा नैकान्तः, स्वातन्त्र्याभावात् । 5 . भवेत् किल सजातेरनेकस्याप्येकः सदृशः, न विजातेः। तन्नार्थस्वरूपं ज्ञानम्।
अपौगलिकत्वात् । सादृश्यस्य रूपादिनान्तरीयकत्वात् । क्षयोपशमानुभावत: परिच्छेदवत् क्लृप्तिः, प्रतिकर्मपरिणामभेदात् । तन्न धीराकारा ।
आत्मा कायप्रमाणोऽयं स्वसंवेदनमास्थितः । मेयत्वात् परवेद्यत्वसिद्धौ जाड्यं न किं ततः ॥१॥ बुद्धिचैतन्ययोरैक्ये जाड्यं बुद्धरधिस्थितः । आत्मानमजडं जल्पन् कथं न स्यादमूढधीः ॥२॥ नामूर्तं व्योमवन्मूतॆबिम्ब्यते जडतान्यथा । सारूप्यं च न किं ज्ञाने चित्रे चानेकता कथम् ॥३॥
इति संग्रहश्लोकः(का:) ॥ तदत्यन्तसजातीयानेकरूपत्वान्नात्मा विभुः । अन्यथा तदभावः ।
अमूर्तद्रव्यत्वाद् धर्माधर्माकाशवद् विभुरिति चेत्, न, धर्मादीनामेकव्यक्तिकत्वात् ।
कथं तर्हि देशान्तरे सुखादिभोग: ? गतिमत्त्वात् । अन्यथा न स्थूलस्कन्धस्य देशान्तरप्राप्ति: स्यात् । असंख्यातप्रदेशोऽपि कर्मोपनीतकायानुरोधात् तथा तथा 20 परिणमते । अप्रदेशत्वे कर-चरणादिभेदो न स्यात् । एकत्रैव सर्वात्मना स्थितेः।
न चाणुमात्रादिः, अशेषे वपुषि चेतनावेदनात् । न चेयं ततो भिद्यते एव । ततस्तदर्थापरिच्छित्तिप्रसङ्गादविशेषात् । गुणत्वमप्येकान्तभेदिनः समम् । समवायोऽप्यकस्मात् तावुपश्लिष्यन्नात्मव्यर्थतां पिशुनयति ।।
तदयमात्मा स्वतश्चिद्रूपत्वेनापि कायमात्रः । कर्ता च कर्मणाम्, 25 तत्फलसुखदुःखभोगात् । अन्यथा न नियमः, सदा भावा-ऽभावौ वा ।
१. तद्वद्वस्तुत्वतस्तु K ॥ २. सदृशं D ।। ३. नात्मा विभुः, अत्यन्तसजातीयानेकरूपत्वात्, घटादिवदिति । - टि० ॥ ४. विपर्यये ‘हेतुरस्तु, साध्यं न भावि' इतिरूपे तदभावोऽत्यन्तसत्त्वाभावः । - टि० ॥ ५. आत्मा विभुरमूर्तद्रव्यत्वात् धर्माधर्माकाशवदिति चेत्, न, अस्याप्रयोजकत्वात् । न खलु धर्मादीनाममूर्तद्रव्यत्वाद् विभुत्वम्, अपि तु एकव्यक्तित्वादित्याह न० - टि० ॥
15
तदत्य
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org