________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः कोऽनयोर्भेदः ? विषयाकारा बुद्धिः, नानारूपाकारत्यागोपादानाभ्यां मा भूत् परिणामितेति विपर्ययश्चैतन्यम् । सारूप्यं लक्षणं चेत्, स्फटिकादेरपि स्यात्, विशेषो वाच्यः । अन्तःकरणत्वादयोऽप्यसाधारणास्तन्निबन्धनाः । तथा नामन्यत्रापि सद्भावान वा प्रतिपत्त्यङ्गमिति न वाच्याः । प्रकाशादेव व्यवहारः । अप्रकाशा कथं कुर्यात् ?। अर्थाकारधारित्वं च स्फटिकादावप्यस्ति । न तु तथा 5 स्थितम् । अपरिणामि चैतन्यं तु न प्रत्यर्थनियतव्यवहारनिबन्धनम् । तस्मान्न चैतन्यादन्या बुद्धिः । तद्रूपव्यतिरेकेण बुद्धेरनुपलक्षणात् । एकमेवेदं संविद्रूपं पश्यामः, तत्र च यथेष्टं संज्ञाः क्रियन्ताम् ।
संसर्गादविभागश्चेदयोगोलक-वह्निवत्, उत्सन्ना तर्हि अभेदसंकथा सर्वत्र संसर्गशङ्कातः, एकान्ताभिन्नोपलम्भानपि संसर्गछद्मना भेदयन् केन वार्येत ? तद् 10 बुद्धिः स्वसंविदिता । आत्मपरिणामश्च कथं जडः स्यात् ? प्रतिबिम्बनमपि तथात्वे घटादाविव न युक्तम् । तथा च नार्थोपभोगः । न चाचेतनत्वं परवेद्यत्वम्, असिद्धत्वात्। अर्था कारधारित्वं तु व्योम्न इवामूर्तस्यायुक्तम् । विषयव्यवस्थान्यथानुपपत्त्या सारूप्यम् । उत्पत्त्या सारूप्यम्, ततो व्यवस्थेत्युत्पत्तिसारूप्याभ्यां ग्राह्यता । शक्तिवैचित्र्यादुत्पत्तावपि नाक्षोपरागः, एवं तर्हि अनन्तरं 15 तुल्यज्ञानं वा नीलं वा द्वयं वा विषय इति सन्दिाहे । हेतुत्व-सारूप्ययोरविशेषात् ज्ञानं तु युक्तमिव सजातीयत्वात् दृष्टत्वेन दृष्टसादृश्यत्वाच्च, नार्थः व्यत्ययात्, मा भूत् ग्राहकाकारेण ग्राह्याकारेणास्ति सादृश्यम् । न चार्थसारूप्यम्, ज्ञानप्रतिभासिनः स्थूलस्य प्रत्येकं परमाणुष्वभावात् । अविरुद्धधर्माध्यासश्च सरूप्य-सरूपयित्रोः सादृश्यनिबन्धनम् । अन्यथा न केनचित् तत्र(त्) स्यात्, 20 अविशेषात् । न च बहुष्वेकत्वपरिणामस्यानभ्युपगमात् अनेकवृत्तेरेकस्य च । अतीन्द्रियत्वाच्चानां न तदाकारा वृत्तिः । कथं नामास्यैकस्यानेकेषु वृत्तिरित्येकोऽपास्तः । तद्यदि मेचकमणिरपि ज्ञानमात्मना सरूपयेत् कस्तत्र समाधिः ? न चैते न सत्याः, तदनुसारेण वाहाव्यवस्थानात् । तत एव नैकत्वमपि तदभेदात् तत्स्वरूपवच्चानेकत्वं स्यादपि साधारणो धर्मः सत्त्वमिव, नासाधारणो 25 जडिमेव जडिमेव जडि(डे?) नीलिमाप्रतीतिरपि एकत्वात्, अन्यथा भेदः । ___ननु निजधर्माप्रहाणान्न पररूपानुकारिता प्रतिबिम्बात्मता, कुतो जडत्वादि ? तद् यदि बोधात्मता जडसादृश्यं परस्पराभावत्वेन तयोर्विरोधात् । न खल व्योम १. नामान्य D॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org