________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः चित्रशक्तित्वात् । अयुक्तोऽपि ह्युपल: कालायसमाकर्षति, तिलकादि वा दूरस्थमपि
अङ्गनादिकमुपनयते । स्वादृष्टाद्वा तथाभावः । काय एव स्वसंवेदनाच्च ।। . न वै स्ववेद्यत्वेनैव प्रत्यक्षता, मा भूदर्थपरोक्षतेति, किन्त्वन्यथापि । तत्
प्रमेयत्वादर्थस्येव ज्ञानान्तरवेद्यताऽस्तु । किमीदानीं जडताऽप्यस्तु ? न ह्यनयो: 5 साधकविशेषोऽस्ति । प्रकाशस्तु परवेद्यताया अपि रक्षतु ईश्वरज्ञानमिव । यथा प्रकाशोऽन्यत्रापि तथा स्ववेद्यतापि । यथा तदभावे ज्ञानत्वाभावोऽर्थस्य तथा तदभावेऽपि । अन्वयोऽप्येवमेवेश्वरसंविदि ।
न च स्वभावः प्रादेशिकः । ग्राहकत्वविशेषस्तु हेतुविशेषमपेक्षते । न च तत्र तथा, उत्तरोत्तरापेक्षया सर्वदा सर्वज्ञत्वहानेरासिद्धेः । न हि प्रकाशावेदने 10 प्रकाश्यो विदितः । परोक्षताज्ञानद्वयाभ्युपगमाभ्यां वरं स्वसंवित्तिरेव । न चाक्षबीज
एव ज्ञानाङ्करोत्पत्तिः । अर्थप्रकाशस्तु ज्ञानमेवेत्यर्था?Jसिद्धौ तदसिद्धिरेव । स्वोपलम्भे चार्थो न सिद्धः तदभावे च सिद्ध इति महती प्रज्ञा । ___ यदि च नियता परोत्पत्तिः, न जात्वर्थाध्यक्षता, अपरापरप्रतीक्षातः ।
अनियमे यथैव तदन्त्यमज्ञातं स्वकार्यकृत् तथा अन्यदपि स्यात्, 15 किमर्धजरतीयन्यायः ? स्वात्मनि क्रियाविरोधस्तु प्रदीपेश्वरसंविदा निरस्तः। विरुध्येताप्युत्पत्तिः, न चासाविष्टा । एतेन परोक्षतापि प्रतिव्यूढा, अनवगमात् । न ह्यर्थमात्रमव्यभिचारि सर्वसाधारणत्वाच्चात्मन्येवेति न स्यात् । व्यक्तिबुद्धिरेव तपाधिः, सोऽप्यसिद्धः । न बुद्धिरर्थधर्म इति चेत्, किमप्रतिबद्धोऽपि गमयति?
न च तत्त्वेनाज्ञातो गमकः, न खलु योग्यतया लिङ्गं गमकम्, स्वनिश्चयापेक्षस्य 20 गमकत्वात् अतिप्रसङ्गाच्च । निश्चयो नान्तरीयकताया न रूपमात्रस्य । न च तत
एव तत्त्वनिश्चयः, अन्योन्याश्रयात् । न चान्यतः, अनवस्थानात् । एतेन प्रकटार्थान्यथानुपपत्तिरपि प्रत्युक्ता, बुद्धि-प्रकाशयोर्भेदाभावात् । पावकस्येव च भस्मना तेनानुमाने अभूदिति स्यात्, न चैवम् । तत्प्रवृत्तिरपि प्रवर्तकमनुमापयेत्, निवृत्तिरप्येवम्, सर्वथोदासीनस्यानिश्चयः । इन्द्रिय-मनसी त्वर्थवदेवेति । 25 अस्तु चैतन्यं तथा, न तु बुद्धिः, अचेतनत्वात् प्रधानपरिणामत्वात् तदभावे
चैतन्यमिति । केयं बुद्धिः ? अध्यवसायः । किमिदं चैतन्यम् ? अनुभवः । १. वयादिजीवानामेव कर्मणोलज्वलनादि-टि०॥२. कायमात्र: - टि०॥ ३. स्ववेद्यमेव यदि प्रत्यक्ष स्यात् तदा घटाद्यर्थस्य स्ववेद्यत्वाभावात् परोक्षत्वमेव स्यादित्यर्थः । -टि०। ४. यौग:-टि० ॥५. स्वपरवेद्यतयोः - टि०॥ ६. दीपादेः - टि० ।। ७. प्रकाश - टि० ॥ ८. दृश्यतां न्यायकुमुदचन्द्रे पृ० १८४ पं० १ । ९. प्रयोजनासिद्धः - टि०॥ १०. भाट्टमते ज्ञानं परोक्षम्, यौगानां च ज्ञानान्तरवेद्यम् - टि० ॥११. स्वोप०-टि० । १२. दृश्यतां न्यायकुमुदचन्द्रे पृ० १८६ पं० १ । १३. सांख्यः - टि० ॥ १४. बुद्धिर्न स्वसंविदिता, अचेतनत्वात्, घटवत् । बुद्धिरचेतना प्रधानपरिणामि(म)त्वात् घटवत् । - टि० ॥ १५. जैनः- टि० । इदं टिप्पणं 'केयं बुद्धिः' इत्यत्र शोभनं भाति ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org