________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः कथं तर्हि कायविकृतौ चैतन्यविकृतिः ? नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः । अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात्, शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः। न च भूतान्येव तथा परिणमन्ते, विजातीयत्वात् काठिन्यादेरनुपलम्भात्। अणव एवेन्द्रियग्राह्यत्वरूपां स्थूरतां प्रतिपद्यन्ते तज्जात्यादि 5 चोपलभ्यते । तन्न भूतानां धर्म: फलं वोपयोगः । तथा भवंश्च यदाक्षिपति त[दस्य लक्षणम् ।
स चात्मा स्वसंविदितः, भूतानां तथाभावे बहिर्मुखं स्यात्, ‘गौरोऽहम्' इत्यादि तु नान्तर्मुखम्, बाह्यकरणजत्वात्, प्रत्यक्षेष्वपि कारणभूतधर्मभेदेन कल्पनादर्शनम् । न च चेतना विजातीयपरिणामः, उत्पत्तिमत्त्वात् ; 10 सजातीयपरिणामो वा, असत उत्पादायोगादिति ।
अनुमेयश्च । धूमधिया बाष्पाद् भस्मनो वा प्रवृत्तस्य साध्यविप्रलम्भादनाश्वास इति चेत्, किं किल वयं प्रति मूढं प्रमाणं प्रपन्नाः ? विवेचितधूमरूपस्य च न विप्रलम्भोऽस्ति। देश-कालाद्यपेक्षया च गमकत्वे तदात्वा(न्धा?)दिविप्रलम्भोऽपि न अगमकत्वावहः। अनभ्युपगतानुमानप्रमाणस्य चात्मनिषेधोऽपि 15 दुर्लभः । अविगीतप्रामाण्ये कः सतामात्मीय-परविभाग: ?
धर्म: फलं वा भूतानामुपयोगो भवेद्यदि ।। प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ इति संग्रहश्लोकः ।
प्राणादिमत्त्वादप्यात्मसिद्धिः । ज्ञानेनैव कार्यकारणभावनिश्चयः । 20 स्वसंवेदनाध्यक्षस्य कथं परोक्षत्वम् ? कथं चादृष्टपितृव्यपदेशनिबन्धनः पितृकार्यतामधिगतोऽसि ?
अहंप्रत्यक्षाच्च । कायमात्रत्वादि च गोचरः । क्षणिकैकात्मनि तु ज्ञाने(ते?) स्मृत्यादि न स्यात्, सन्तानान्तरेऽपि प्रसङ्गात् । अङ्करप्रतिनियमस्तु कथञ्चिदभेदात्। यो यदभावे न भवति स भवंस्तद्भावमुपस्थापयति । न तु शक्तिवैचित्र्यम् । 25 कुशला-ऽकुशलप्रवृत्ति-निवृत्ती च न स्याताम् ।।
स तु कायमात्र-स्वतश्चिद्रूप-स्वकृतकर्मभोक्त्रमूर्तीपशमिकादिभाववत्त्वादिमान्। तत्र स्वकायप्रमाणः, तत्रैव सुख-दुःखभोगात् । अन्यथा दिव्यपि स्यात् । कायसहकारित्वेऽपि संकरः, संयोगस्याविशेषात् । परादृष्टमप्यात्मीयम्, स्वत्वस्य समवायमात्रनिमित्तत्वात् । एकश्च सः । तत्कर्तृत्वमपि तद्धेतु क्रियासु 30 प्रयत्नादिसमवाय एव । वढ्यादेरूव॑ज्वलनादि तु अयुक्तात्मस्थादृष्टनिबन्धनम्, १. भूतानां स्वसंविदितत्वे - टि० । २. अस्त्यात्मा जीवच्छरीरे प्राणादिमत्त्वात् - टि० ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org