________________
द्रव्यालङ्कारे प्रथमो जीवप्रकाशः सद्भतार्थपूर्वकत्वानिःश्रेयसावाप्तेस्तद्विपश्चनायोपक्रम्यते । स पञ्चधा । जीव-पुद्गलधर्मा-ऽधर्मा-ऽऽकाशकाया द्रव्याणि । गुण-पर्यायवद् द्रव्यम् । द्रव्याश्रया धर्मा गुणाः। तदन्ये पर्यायाः । धर्म-धर्मिभावस्तु स्यादभेदात् ।
आश्रवादेराद्ययोरन्तर्भावः । शुभा-ऽशुभकर्मादानहेतुराश्रवः । कार्व्य5 देशाभ्यां तन्निरोधः संवरः । कर्मात्मनोरन्योन्याश्लेषो बन्धः । पार्थक्यापादनं निर्जरा । साता-ऽसातादिकर्महेतवः पुण्य-पापे । तदत्यन्तक्षयो मोक्षः ।
पृथिव्यादेरपि । दिशामाकाशे । कालादिपर्यायाणां सर्वेषु । नान्योन्य [म्,] स्वस्वरूपस्थितेः ।
तत्रोपयोगलक्षणा जीवाः । स साकारोऽनाकारश्च । न चायं भूतधर्मः, सत्त्व10 कठिनत्वादिवत् मद्याङ्गेषु भ्रम्यादिमदशक्तिवद्वा प्रत्येकमनुपलम्भात् ।
अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्य: स उत्पद्यत इति चेत्, कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः, अन्यस्त्वात्मैव स्यात् ।।
अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताद्युपाधिः सुप्तादावप्यस्ति । न च सतस्तस्योत्पत्तिः, भूयो भूय: प्रसङ्गात् । अलब्धात्मनश्च 15 प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते। असतः शक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम् ? अन्यस्यापि प्रसङ्गात् । तन्न भूतकार्यमुपयोगः ।
कुतस्तर्हि सुप्तोस्थितस्य तदुदयः, असंवेदनेन चैतन्यस्याभावात् ? न, जाग्रदवस्थानुभूतस्य स्मरणात् । असंवेदनं तु मिद्धोपघातात् । १. 'दब्वस्स वत्तणा जा स दव्वं कालो तदेव वा दव्यं । न हि वत्तणाइभिन्न जम्हा दव्वं जआ ऽभिहियं ।' [] इत्यादिप्रतिपादनाद् द्रव्यस्य तथा तथा वर्तनालक्षणः कालो न द्रव्यात् पृथगिति नासावत्र गृहीतः . टि० ।। २. पृथिव्यादेरपि आद्ययोरन्तर्भावः, दिशामाकाशेऽन्तर्भावः, कालादिपर्यायाणां सर्वेष्वन्तर्भावः । न तु एतेषां द्रव्याणामन्योन्य परस्परमन्तर्भावः, सर्वेषां स्वस्वरूपे स्थितत्वादिति तात्पर्यम् ।। ३. (नान्योऽन्यः स्वस्वरूप' ?)। ४. "एवं नास्तिकाभिमतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकारी उपयोगवर्णने- 'न चायं भूतधर्मः सत्त्व-कठिनत्वादिवत् मद्याङ्गेष भ्रम्यादिमदशक्तिवद्वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्यः स उत्पद्यते इति चेत्, कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः । अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः । मृतादपि च स्यात् । शोणिताधुपाधिः सुप्तादावायस्ति । न च सतस्तस्योत्पत्तिः, भूयो भूयः प्रसङ्गात् । अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम्, अन्यस्यापि प्रसङ्गात् ? तन्न भूतकार्यमुपयोगः ।। कुतस्तर्हि सुप्तोत्थितस्य तदुदयः ? असंवेदनेन चैतन्यस्याभावात् । न, जाग्रदवस्थानुभूतस्य स्मरणात् । असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः ? नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः, अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात् शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः। न च भूतान्येव तथा परिणमन्ति विजातीयत्वात् । काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपा स्थूलतां प्रतिपद्यन्ते तज्जात्यादि चोपलभ्यते । तन्न भूतानां धर्मः फलं वा उपयोगः । तथा भवां(व)श्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथा भावे बहिर्मुखं स्यात् । गौरोऽहमित्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् । अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधोऽपि दुर्लभः । धर्मः फलं च भूतानामुपयोगो भवेद् यदि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥” इति काव्यार्थः ॥२०॥” इति श्री मल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्याम् ।। ५. तु निद्रोप० D.
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org