________________
श्री शंखेश्वरपार्श्वनाथाय नमः । श्री ऋषभदेवस्वामिने नमः । श्री महावीरस्वामिने नमः । श्री सद्गुरुदेवेभ्यो नमः । श्री पुण्डरीकस्वामिने नमः । श्री गौतमस्वामिने नमः । परमार्हतकुमारपालभूपालप्रतिबोधकाचार्यश्रीहेमचन्द्रसूरीश्वराणां शिष्यप्रवराभ्याम्
आचार्यरामचन्द्र-गुणचन्द्रसूरिभ्यां प्रणीतो
द्रव्यालङ्कारः ।
॥ प्रथमो जीवप्रकाशः ॥ अनन्तवेद्यपि ज्योतिर्यस्य संख्यातवेदिताम् । गमितं पञ्चभिर्द्रव्यैर्नमस्तस्मै परात्मने ॥ मृगोऽपि वन्द्यतां याति मृगलाञ्छनमाश्रितः । स्वगुरून्नीतसूत्रस्य व्याख्यामिति वितन्वहे ॥
10 *. अत्रेदमादाववधेयम् - आचार्यप्रवरश्रीहेमचन्द्रसूरीश्वराणां शिष्यप्रवराभ्यामाचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां संमील्य स्वोपज्ञटीकायतः द्रव्यालङ्कारो नाम ग्रन्थो विरचितः । तत्र प्रकाशत्रयम् - जीवप्रकाशः, पुद्गलप्रकाशः, अकम्पप्रकाशश्च । सम्प्रति स्वोपज्ञटीकासहितौ द्वितीय-तृतीयप्रकाशावेवोपलभ्येते । जेसलमेरुदर्गे आचार्यश्रीजिनभद्रसूरिसंस्थापिते ग्रन्थभाण्डागारे सं० १२०२ वर्षे तालपत्रोपरि लिखित एक एव आदर्शो द्रव्यालङ्कारटीकाया विद्यते । ३६६ ग्रन्थाङ्के (१) मध्ये द्वितीयः प्रकाशो वर्तते, पत्राणि १-१९७ । ९१,९२,१२८ इति पत्रत्रयं नास्ति । (२) मध्ये तृतीयः प्रकाशो वर्तते, पत्राणि १-११३ । सटीकं प्रथम प्रकाशमुपलब्धुं बहूनि बहूनि वर्षाणि यावत् बहुषु बहुषु स्थलेषु प्रयतितमस्माभिः, किन्तु कुत्रापि स नोपलब्धः । ____एतत्तु अस्ति - मूलमात्रं त्रयाणामपि प्रकाशानामुपलभ्यते । किन्तु तद् बहुषु स्थलेष्वशुद्धमिवाभाति । द्रव्यालङ्कारटीकाया द्वितीये प्रकाशे तृतीये प्रकाशे च टिप्पणेषु ग्रन्थकाराभ्यां प्रायः सर्वं मूलं लिखितं वर्तते । अतस्तत् सुगमम् । प्रथमप्रकाशमूलं तु टीकाया अभावेन अतीव दुरूहम् ।
सटीकस्य प्रकाशद्वयस्य मद्रणं विंशतेवर्षेभ्यः प्राग यदाऽस्माभिरारब्धं तदा मलमात्रस्य आदर्शद्वयमेवास्माभिलब्धमअमदावादनगरे 'हाजापटेलनी पोल' मध्ये संवेगी-उपाश्रये सं. १४९२ वर्षे कागजपत्रोपरिलिखित एक आदर्शो विद्यते, पू० आगमप्रभाकरमुनिराजश्रीपुण्यविजयजीमहाभागैः अस्य प्रतिकृतिः (Photo-Copy) प्रतिलिपिश्च महता उत्साहन प्रेषिता, अत्र १-१२ पत्राणि, अस्य P इति संज्ञाऽस्माभिः कृता । अपर आदर्शो मरुदेशे बेडानगरे आचार्यश्री विजयक्षमाभद्रसूरिविहिताद् ग्रन्थसंग्रहादस्माभिर्लब्धः, अत्र पत्राणि १-१३ । अस्य K इति संज्ञाऽस्मत्कृता । एतच्च सटीकस्य ग्रन्थस्य मुद्रणवेलायां प्रथमे पृष्ठे एव निवेदितम् । सम्प्रति पू० पं० श्री भद्रकरविजयजीगणिवयंमहाभागानां शिष्याणामुपाध्यायश्रीमहायशविजयानां शिष्यप्रवराणां मनिधुरन्धरविजयानां सकाशादपि कागजपत्रोपरि लिखित एक आदर्श उपलब्धः, अत्र पत्राणि १-१२ । अस्य । इति संज्ञाऽस्मत्कृता । अस्य लिपिः समीचीना । अत्र प्राचीनन केनचिल्लिखितानि टिप्पणान्यपि वर्तन्ते. तानि चात्र टि. इति संकेतेन मुद्रितान्यस्माभिः । यद्यपि त्रिष्वपि आदर्शेषु बढ्योऽशुद्धयः समानप्राया एव, तथापि किश्चित् समीचीनतरोऽयम् D आदर्शः । एतदादर्शत्रयानुसारं मूलमात्रः संपूर्णो द्रव्यालङ्कारोऽत्र स्थूलाक्षरैः मुद्यते । ।
इद तु ध्येयम् - द्रव्यालङ्कार सटीकमादौ विरचय्य ततः परं ग्रन्थकाराभ्यामेव बहषु स्थलेष पाठसंशोधनं विहितं मूलमपि च परिवर्तितम् । अत्र तु प्रारम्भिकमूलादर्शानुसारेण यादृशं मूलं तदेवोपन्यस्यते, यत्र क्वचित् टीकादशैं मूलपरिवर्तनं ग्रन्थकाराभ्यां कृतं तत् टिप्पणेषु पमू० = [परिवर्तितं मूलम् ] इति संकेतेन निर्दिष्टमस्माभिः । प्रथमप्रकाशस्य सम्यगवगमाय संशोधनाय च तत्त्वार्थश्लोकवार्तिक-तत्त्वार्थसिद्धसेनीयवृत्ति-न्यायकुमुदचन्द्रादयो ग्रन्था अतीवोपयोगिनः । अस्माभिः समयाभावादिकारणेन तेषां सम्यगुपयोगः कर्तुं न पारित इति क्षन्तव्यं सुधीभिः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org