________________
१८३
उत्पाद व्यय-ध्रौव्यमाधनम् । स्यादेवम्-यद्युत्तरपर्यायांशो विनाशस्तदा प्रदीप-तमैसादीनां नित्यैकान्तः स्यात् , तेषां भावरूपोत्तरपर्यायस्यादर्शनादिति । अत्रोच्यते-दीपादेरिति । आदि728 शब्दाभ्यां तमसाद्यालोकादिग्रहः । प्रदीपपरमाणवो हि विध्वस्तास्तमसपरमाणवो
भवन्ति । तमसपरमाणवः पुनरालोकपरमाणवः । ननु यदा प्रद्योतनप्रभाप्रतानमध्य एवं प्रदीपः प्रचंस्य(स? ते तदा कथं तमसीभवेदिति । एवं मन्यते-नैकरूपमेव भावान्तरम् , 5 किन्तु क्वचित् कस्यचित् किमपि भवति, तत आलोकान्तःस्थितपदीपविध्वंसे आलोकान्तरपरमाणुरूपतैव भावान्तरम् । एवं सर्वत्रापि सर्वस्य भावान्तरमुत्प्रेक्ष्यम् , संतोऽवश्यं भावान्तरपरिणामनान्तरीयकत्वात् ।
एतेन यदप्युक्तं भट्टाचंटेन-"यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धयादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" 10 हितविन्दुटीका पृ० ७९] इति, तत् परसिद्धान्तानवबोधबाधितमित्युपेक्षामहति ।
प्रागभावाभाव एव भावोद्भवः, न प्रधंसाभावाभावे । __अथ यदि मृत्पिण्डम्याभावो घटांशस्तदा तदभावे पिण्डोन्मञ्जनं कथं न भवतीति । उच्यते-प्रांगभावाभाव एव भावोद्भवो भवति, न प्रध्वंसस्याभावे । एवं मेन्यते-न यावानभावस्तावतः सर्वस्याप्यभावे भाव उन्मञ्जनि । अन्योन्याभावाभावे- 15 ऽप्युन्मजनप्रसङ्गात् । द्वौ घटौ परस्पराभावात्मको यदा विनश्यतस्तदा तेंदात्मकः परस्पराभावोऽपि विनश्यति, न च तयोरुत्मजनं दृश्यते, तस्माद्विशिष्टस्यैवाभावस्याभावे भावोद्भवः । स च प्रागभाव एव । यदि वा ऐकस्यां द्रव्यसन्तती "पूर्वपर्यायस्याभावांश "उत्तरपर्यायस्य प्रागभावः, उत्तरर्यायस्य पुनरभावांशः
"पूर्वपर्यायस्य प्रध्वंसाभाव इति वस्तुगतिः । तत्र मृत्पिण्डस्य यो घैटाभिन्नः प्रध्वंसा- 20 73n भावो न तस्य प्रध्वंसो मृत्पिण्डाभिन्न एव, कपालानामेव तत्प्रध्वंसाभिन्नत्वात् ,
73A
१. पूर्वस्य ।। २ 'तमस'शब्द औणादिकोऽकारान्तः ॥ ३ सदाप्यवस्थानं स्यात् , न कदापि विनाश इत्यर्थः ।। ४ प्रदीदेम्तमसादिभाषी भावान्तरम् ॥ • मध्ये ॥ ६ विद्यमानस्य ॥ ७ उत्तरपर्यायः ॥ ८ पूर्वस्य ।। ९ बुदिर्हि आत्मधर्म इत्यामेव भावान्तरम् ॥ १० प्रागभावाभाव एय भावोद्भवो न प्रध्यमाभावाभावे ।। ११ . मन्यते इति यद्यपि पाठो हस्तलिखिते दृश्यते, तथापि तत्र अनुस्वारविन्दुः 25 किञ्चिद्रीनतेजाः, अतो मन्यते इति पाठोऽस्माभिरत्र स्वीकृतः ॥ १२ घटात्मकः १३ मृत्प्रध्वंसाभावात्मकघविनाशे मृत्पिण्डोत्पत्तिन भवति अविशिष्टविनाशवत्वात् । न हि यो योऽविशिशेऽभावविनाशस्तस्मिन् सति पूर्ववस्तूत्पत्तिर्यथा इतरेतराभावे ।। १४ मृत्पिण्डः, ततो घटः, ततः कपालानि । एवरूपायाम् || १५ सर्व
वस्तु भावाभावात्मकम् , ततश्च भावांशोऽभावांशश्च प्रत्येक विचारणीयः ।।१६ कः? || १७ घट ।। १८ घट ॥१९ कः? ॥ २० मृत्पिण्ड ॥ २१ घटात्मकः ।। २२ घटामिन्नमृत्पिण्डप्रध्वंसस्य ॥ २३ घट || 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org