________________
उत्पाद - व्यय - श्रौव्यसाधनम् ।
१६३
कार्योत्पादं प्रत्यविकलस्य सदा सर्वकालं जनना जननप्रसङ्गात् । यदि हि नित्यैकरूपो भावः समर्थतया कार्याण्याविर्भावयति तदा सर्वदाऽप्याविर्भावयेत् कार्याविर्भावसम्भावनीयत्वात् कारणसामर्थ्यस्य । तथा च कुलमूलावस्थितादपि बीजादङ्करो - 464 त्पत्तिप्रसङ्गः, क्षित्युदकसन्निधानकाल इव पूर्वमपि बीजस्य समर्थत्वात् । अथ समर्थो - sit कदाचिन्नाविर्भावयति तदा सर्वदाऽप्यनाविर्भावप्रसङ्गः, समर्थस्यापि कार्यानावि - 5 र्भावात् । तथा च कुसूलस्थितादिव क्षित्युदकसन्निहितादपि बीजादङ्कुरानुत्पत्तिप्रसङ्गः, समर्थादपि पूर्वमनुत्पाददर्शनात् । कादाचित्कं तु जननमजननं च न सङ्गच्छत एव ।
"
स्यादेवम्-द्विधा भावस्य रूपं विलम्बकारित्वमक्षेपकारित्वं च । तत्र विलम्ब - कारित्वं नाम यावन्न सहकारिसमवधानं तावदकरणम् । अक्षेपकारित्वं नाम बीज46B जातीयस्य सहकारिसमवधानानन्तरमेव करणम् करणमेव च । एवं चायमर्थो 10 जात:- कुम्मूलमूलावस्थितं बीजं सहकारिवैकल्यप्रयुक्ताङ्कुरादिकार्याभाववत् न पुनः स्वशक्तिवैकल्यप्रयुक्ताङ्कुरादिकार्याभाववदिति । एवं च कुसलमूलावस्थितं बीजं स्वसामर्थ्यं सत्यपि न जनयति, सहकारिसान्निध्यरूपव्यतिरिक्तसामर्थ्याभावात् । यदा तु तत् स्यात् तदा जनयत्येव । न चैवं सामर्थ्यासामर्थ्याभ्यां भेदः, स्वरूपासामर्थ्यस्य कदाचिदप्यभावात्, सहकारिसन्निधानलक्षणस्य च सामर्थ्यस्य भावाभावाभ्यां स्व- 15 रूपहानेरयोगात्, तस्य ततो व्यतिरिक्तत्वात् । व्यतिरिक्तस्य च भावाभावाभ्यां स्वरूपहीनावतिप्रसङ्ग इति ।
47A
"
,
अत्र निरूप्यते - कुलमूलावस्थितस्य बीजस्य तेजोऽवनि-पवन - पाथः पार्श्ववर्त्तिनोऽवयवशैथिल्यापरनामधेयायामुच्छ्रनावस्थायां प्रत्यक्षलक्ष्यत्वात् पामरजनस्यापि सुप्रसिद्धायां सत्यां यदेतत् तार्किका अवस्थाद्वयेऽपि बीजस्यैकरूपताप्रसाधनाय प्रमाण - 20 शतोपन्यासैरात्मानमायासयन्ति तत्र केवलं तेषां कुशाग्रीयप्रज्ञतैवापराध्यति, न ते । प्रज्ञापाटवान्धा हि प्रत्यक्षप्रसिद्धमपि विपर्यासयितुं प्रयतन्ते । ततो भावानां सूपलक्ष47B विकाराणां कैवल्या कैवल्ययो रूपाभेदसाधना युक्तयः प्रत्यक्षत एव प्रतिक्षिप्यन्ते । ये पुनर्न सूपलक्ष्य (क्ष) विकारास्तेषु युक्त्यन्तरमपि प्रथयामः - अपेक्ष्यस्येति । भवतु स्वरूपशक्त्या केवलोऽपि समर्थो भावः, सहकारिसमवधानलक्षणस्य व्यतिरिक्त- 25
Jain Education International 2010_05
१ क्षित्युदकादेः ॥ २ कार्यस्य || ३ मम ॥ ४ सहकारिसामर्थ्याभावे स्वरूपसामर्थ्य न हीयते, सहकारिसामथ्र्यस्य ततो मिन्नत्वात् । यद् यतो भिन्नं तत् तदभावे न हीयते यथा घटात् पटादि । ५ स्वरूपात् ॥ ६. सत्याम् ॥ ७ सामग्रीमध्यवर्तिनः ॥ ८ * पूर्व 'लक्ष्य' इति लिखितम्, किन्तु पश्चाद् घृष्ट्वा 'लक्ष' इति ग्रन्थकारेणैव विहितम् ।। ९ सहकारिसन्निधानाभावः । तद्विपर्ययोऽकैवल्यम् ॥ १० अत्रापि 'लक्ष' इति पाठेन भाव्यम्, दृश्यतां पृ० १६३० ८ || ११ अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्तिः ॥ 30
For Private & Personal Use Only
www.jainelibrary.org