________________
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे अनेकप्रदेशः स्कन्धः । भावांशेरणुः कायः ।
अनेकप्रदेशः स्कन्धः । न विद्यते एकः प्रदेशो यस्य स तथा । एकप्रदेशप्रतिषेधाद् द्वयाद्यनन्तानन्तपर्यन्तप्रदेशानामभ्यनुज्ञा । द्वावादिमनन्तानन्तसङ्ख्यां च पर्यन्ते कृत्वा पुद्गलस्कन्धानां प्रदेशा भवन्ति । स्कन्ध इत्येकवचननिर्देशो जात्यपेक्षः ।
स्यान्मतम्-यदि प्रदेशबाहुल्यं कायस्तदा परमाणुः कायो न प्रामोति, तस्य 5 45A निःप्रदेशत्वादिति । अत्राह-भावांशैरणुः कायः । भावांशाः स्पर्श-रस-गन्ध-वर्णादयः,
तैः परमाणुः कायव्यपदेशं लभते । यद्यपि परमाणो स्कन्धवद् द्रव्यांशा न सन्ति तथापि भावांशाः सन्ति, ततस्तैः सोऽपि काय इत्युच्यते भार्द्रध्यैश्च प्रदेशबाहुल्यस्य कायरूपत्वात् ।
तदेवं कायशब्दस्य प्रदेशबाहुल्यमर्थमभिधायार्थान्तरमप्यमिदधाति- 10
उत्पाद-व्यय-ध्रौव्याणि वा कायः, प्रतिक्षणमविकारिणोऽर्थक्रियाऽभावात् , समर्थस्य सदा जनना-ऽजननप्रसङ्गात् । अपेक्ष्यस्यानुवर्तिनः पूर्वरूपस्य निवृत्तिः, तस्य कार्यविरोधात् । कार्योत्पत्ती वा निवृत्तिः । उत्तरमपि वा जनयेत् । एवमयमशोर्णाशेषरूपो यदि प्रसह्य कृतमपि करोति ।
15 उत्पाद-व्यय-ध्रौव्याणि वा कायः । भावान्तरापत्तिरुत्पादः । उत्तरभावाभावांशरूपः पूर्वभावविगमो व्ययः । धुं स्थैर्य धा० पा० १६] इत्यस्मादचि ध्रुवः, अनुगतो भावांशः, स एव धौव्यम् । एतानि वा 'काय'शब्देनोच्यन्ते । 'काय'शब्देन हि प्रचय उच्यते । प्रचयश्चात्रोत्पाद-व्यय-धौव्याणामेव । ततो जीवादयः काया इति कोऽर्थः ? जीवादय उत्पाद-व्यय-ध्रौव्यसमुदयरूपा इत्यर्थः ।
20 कथं पुनः सर्वदोत्पाद-व्यय-ध्रौव्यसमुदायरूपा एव जीवादय इति ? उच्यतेतावद् भावा नैकान्तनित्याः । यतः प्रतिक्षणं प्रतिसमयमविकारिणो निर्विकारस्यैकस्वभावस्येत्यर्थः, अर्थस्य कार्यस्य क्रिया निष्पत्तिस्तस्या अभावादभावप्रसङ्गात् । सैमर्थस्य १ सत्त-प्रमेयत्व-ज्ञेयत्वादयः ॥ २ . 'अपेक्षस्या" इति मूलादर्श पाठः ॥ ३ पूर्वभावस्य घटलक्षणभावस्य विगमो व्ययः । कः? उत्तरभावाभावांशरूपः । उत्तरभावस्य कपाललक्षणस्य सम्बन्धी योऽभावरूपोऽशः । 25 कोऽर्थः ! पदार्थस्य हि द्वावंशो सद्पोऽसद्पश्च । ततः कपाललक्षणस्य भावस्प घटाभावात्मकोऽभावांशः स एवं पूर्वभावविगमः ॥ ४ अनुगतं द्रव्यं मृदादिलक्षणम् ॥ ५ प्रतिक्षणमविकारिणोऽयक्रिया:भावात् ॥ ६ समर्थस्य सदा जनना-ऽजननप्रसङ्गात् ।।
45B
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org