________________
१६१
43B कात्स्न्यैकदेशव्यतिरिक्तस्य प्रकारान्तरस्य तत्सम्बन्धनिबन्धनस्यासिद्धत्वात् । कथञ्चितादात्म्येन तत्सम्बद्धत्वे स्याद्वादिमतसिद्धिः, अवयवावयविनोः सादृश्याख्यसामान्यतंद्वतोच कथञ्चित्तादात्म्यस्योपगमात् । न चैत्रमाकाशस्य परमाणुभिः कथञ्चितादात्म्यमित्येकदेशेन संयोगोऽभ्युपेयः, तथा च सांशत्वसिद्धिः ।
तदेवमाकाशस्य सामान्येन सदेशत्वमुपपाद्य लोकाकाशप्रदेशेयत्तामाहलोकाकाशमसङ्घयेयप्रदेशम् शश्वदसंहरणधर्मकस्य सावधि
आकाशप्रदेशाः ।
"
"
त्वात् ।
लोकाकाशमसङ्ख्येयप्रदेशम् । यावति जीव-पुद्गलानां गति- स्थिती भवतस्तावलोकाकाशम् । तदसङ्खथेयप्रदेशं भवति, शैश्वत् सर्वकालमसंह रणधर्मकस्य सावयवत्वे सत्यसङ्कोचस्वभावस्य सतः सावधित्वात् । ' शश्वदसंहरणधर्मकत्वात्' इत्युच्यमानेऽलोकाकाशेन 10 44A व्यभिचार इति सावधित्ववचनम्, सावधित्वादित्युच्यमानेऽपि पुद्गलस्कन्धेनानन्तपरमाणुकेनानेकान्तो मा भूदिति शश्वदसंहरणधर्मकत्वे सतीति विशेषणम् । एतच्चानुमानसिद्धम्—शश्वदसंहरणधर्मकं लोकाकाशम्, अजीवत्वे सत्यमूर्त्तद्रव्यत्वात्, अलोकाकाशवत् । न ह्यलोकाकाशं कदाचिदपि संहरणधर्मकम्, सर्वदा परममहत्त्वाभावप्रसङ्गात् । इदमुक्तं भवति - न तावल्लोकाकाशमनन्तप्रदेशं भवितुमर्हति शश्रदसंहरणधर्मकस्यानन्त - 15 प्रदेशस्य वस्तुनः सावधित्वाभावादलोकाकाशवत् । नापि सङ्ख्यातप्रदेशम्, वश्यं शश्वदसंहरेणेधर्मकत्वाभावात् । तथा च पारिशेष्यादसङ्ख्येयप्रदेशं सिद्धम् । सर्वमनन्तप्रदेशम् अलोकाकाशस्यानन्तत्वादिति ।
तस्या
Jain Education International 2010_05
5
सर्वमिति लोकाकाशमलोकाकाशं च अनन्तप्रदेशम् । अन्तः पर्यवसानम् । 448 स येषां नास्ति ते तथाभूताः प्रदेशा यस्य तत्तथा । अलोकाकाशस्यानन्तत्वादवधिशून्य- 20
त्वात् ।
तदेवमेकजीव-धर्मा-धर्माऽऽकाशानां सप्रदेशत्वं प्रदेशेयत्तां च प्रसाध्य पुद्गला
नामपि प्रसाध्यते
१ कात्स्न्यकदेशाभ्यां प्रकाराभ्यां व्यतिरिक्तस्य ॥ २ ओस् ॥ * षष्ठीद्विवचनान्तं विग्रहे तथा च तयोरत्रयवावयविनोः सम्बन्धस्य यद् निबन्धनं तस्यासिद्धत्वादित्यर्थः ॥ ३ अवयवादिभिः सह योऽवयव्यादीनां 25 सम्बन्धः || ४ '६' [ = विग्रहे षष्ठ्यन्तम् ] || ५ सामान्यवतः || ६ शश्वदसंहर णधर्मकस्थ सावधित्वात् ॥ ७ सावयवत्वविशेषणात् परमाणुव्युदासः । ८ 'शश्वद्ग्रहणाद् घटादिभिर्व्यभिचारनिरास: ।। ९ घटादिरूपेण ॥। १० भात्मव्यवच्छियै ॥ ११ पया (म्य १) दो || १२ समनन्तप्रदेशम् ॥
२१
For Private & Personal Use Only
www.jainelibrary.org