________________
१६०
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे देशान्तरेण संयोजयतीति प्रतीयते । न चाकाशस्य देशाभावे एतदुपपद्यते, स्थाणुश्येनयोः सर्वदाऽप्यभिन्न देशत्वात् । एतेन मेपयोरुभयकर्मजः संयोगो विभागचाकाशस्य निरंशत्वे न घटत इति निवेदितं भवति । तथा व्योम्नो निरंशत्वे कर्माऽपि न घटामटाट्यते, तस्य देशाद्देशान्तरप्राप्तिहेतुपर्यायरूपत्वेन व्यवस्थापितत्वात् देशान्तरस्य च कस्यचिदभावात् । अत एव पदार्थानां परत्वा-ऽपरत्व-पृथक्त्वाद्यनुपपत्तिरवधार्या । 5 तेद् विभागादीनभ्युपगच्छता भवताऽऽकाशमंशवदभ्युपेयम् ।।
अत्र कश्चिदाह-"निरंशमाकाशं, सर्वजगद्वथा पित्वात् , यत् पुनर्न निरंशं न तत्तथा दृष्टं यथा घटादि, सर्वजगद्वयापि चाकाशम् , तस्मानिरंशम्" [ ] इति । 42B तत्र, हेतोविरुद्धत्वात् । न हि येनेव भागेन विन्ध्यसम्बद्धमाकाशं तेनैव हिमवताऽपि
तयोरेकदेशत्वप्रसङ्गात् , अतः सर्वजगद्वथापित्यादिति हेतुः सांशत्वमेव साधयति । 10 अनुमाना-ऽऽगमबाधितत्वेन हेतोः कालात्ययापदिष्टत्वाच । सांशमाकाशम् , 'द्रव्यत्वे सति संकृदशेषभिन्नदेशद्रव्यसम्बद्धत्वात् ।
___ यदप्युच्यते-"निरंशमाकाशं सदाऽवयवानारभ्यत्वात् परमाणुवत्" [ ] इति, तदप्यनेनेव प्रत्याख्यायत, हेतोः कालात्ययापदिष्टत्वस्य तुल्यत्वात् । अपि च, यदि
सर्वथा सदाऽवयवानारभ्यत्वं हेतुस्तदाऽस्माकं न सिद्धः, पर्यायादिशात् पूर्वपूर्वा- 15 43A काशदेशेभ्य उत्तरोत्तराकाशदेशानामुत्पादात् । अथ कथञ्चित् सदाऽवयवानारम्यत्वं
हेतुस्तदा विरुद्धः, कथञ्चिन्निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथचिनिरंशत्वसाधने च सिद्धसाधनम् , पुद्गलस्कैन्धवत् सर्वदावयव विभागाभावेन सावयवत्वाभावोपगमात् । किञ्च, आकाशं सांशमेव, एकदेशेन परमाणुभिः सह संयुज्यमानत्वात् , स्कन्धवत् । तस्य"तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसङ्गः। 20 तथा चानेकाकाशापत्तिः।
स्यान्मतम्-जैकदेशेन सर्वात्मना वा परमाणुराकाशेन युज्यते, किं तर्हि ? युज्यत एव, यथाऽवयवी स्वावयवैः सामान्यं वा स्वाश्रयैरिति। तन। अवयव्यादेरपि सर्वथा निरंशत्वे स्वावयवादिभिरेकान्ततो भिन्नैः सम्बन्धे यथोक्तदोषप्रसङ्गात् । १ कर्मणः ।। २ देशान्तराभावादेव ।। ३ ५' [=तस्मात् ] ॥ ४ विन्ध्यहिमवतोः ॥ ५ आकाशस्य 25 महत्त्वं सत्त्वं च युगपदशेषभिन्नद्रव्यसम्बदत्व ]मपि ॥ ६ युगपत् ॥ ७ निष्पन्ने घटे पश्चादवयवानारभ्यस्वमस्ति इति तद्वयवच्छेदार्थ 'सदा ग्रहणम् ॥ ८ पुद्गलस्कन्धो हि वैधHदृष्टान्तः, तस्य सर्वदाऽवयव. विभागेन सावयवत्वाभावोपगमात् ।। ९ पुद्गलोऽपि कथञ्चिन्निरंशः ।। १० आकाशस्य ।। ११ परमाणुभिः ॥ १२ अवयवमात्रस्वादिलक्षणदोषप्रसङ्गात् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org