________________
आकाशास्तिकायसाधनम् । आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धाहत्वात् । अन्यथा सर्वावगाहिनामेकदेशत्वम् , एकदेशावगाढानेकपुद्गलवत्। एकत्रैव चाधेयस्वरूपभावा-ऽभावौ स्याताम् , विभागादयश्च कस्यचिन्न स्युः ।
नन्वाकाशस्य प्रदेशवच्चमेवाऽसिद्धमतः कथं तदेकदेशस्य लोकाकाशस्यासकथय- 5 प्रदेशवत्वेन जीवादीनां तथाभावो भवेदिति । अत्राह-आकाशोऽपीति आकाशध्वनिः पुनपुंसकः । आकाशमपि सप्रदेशमेव, सकृदेककालं सर्वमूर्त्ताभिसम्बन्धार्हत्वात् अलोकाकाशः सम्बन्धाई एव न पुनः सम्बद्ध इत्य हग्रहणम् । यद्यवं लोकाकाशस्य सङ्ग्रहो न प्रामोति, तस्य साक्षात् सम्बद्धत्वेनाहत्वाभावात् । न । तस्यानहत्व
शङ्काया एवाभावात् । न हि यो यत्रार्हो न भवति स तत् कार्यमुत्पादयितुं पदुः। 10 41A आकाशं हि युगपदखिलमूर्द्रव्यैः सहाभिसम्बध्यते । ततस्तदपि सप्रदेशमेव ।
अन्यथेति । यदि सकृत्सर्वमूर्ताभिसम्बन्धयोग्यत्वेऽपि व्योम्नः सप्रदेशत्वं न स्यात्तदा सर्वावगाहिनां सर्वेषामप्यवगाहवतामेकदेशत्वं स्यात् । एकदेशावगाढानेकपुद्गलवदिति साधर्म्यनिदर्शनम् । यथा हि परिणामविशेषादेकदेशे निरंशे बहवोऽपि पुद्गला अवगाहमाना एकदेशावगाहिनोऽमी इति व्यपदेशमश्नुवते तथा यदि 15 सर्वाणि मूर्त्तद्रव्याण्याकाशे निरंशेऽवगाहेरंस्तदेकदेशान्यमूनीति व्यपदेशमश्नुवीरन् । न चैवमस्ति । तस्मात् सांशमेवाकाशम् ।
किञ्च, यद्याकाशं निरंशं स्यात्तदा एकत्रैव चाधेयस्वरूपभावाभावौ स्याताम् । एकत्रैव च देशे काले चाऽऽधेयस्वरूपभावाभावौ स्याताम् । निरंशाकाशवादाग्रहग्रह418 गृहीतानां हि मतेन यदेवाकाशमुजयन्यामयोध्यायामपि तदेव, ततश्वीजयनीपरिच्छिन्ने- 20
व्योमनि यो घटादिरवजगाहे तस्य यद्यप्ययोध्यापरिच्छिन्ने व्योमन्यभावस्तथापि भावाभावौ युगपदकभाविनावेव, उज्जयनीसम्बद्धस्यैवाकाशस्याऽयोध्ययाप्यभिसम्बन्धात् । न केवलमेकत्रैवाधेयस्वरूपभावाभावौ स्याताम् ।
तथा विभागादयश्च कस्यचिन्न स्युः । आदिशब्दात संयोग-कर्म-परत्वा-ऽपरत्व-पृथक्त्वादिग्रहः। श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतरकर्मजः, तेत्रोत्पन्न कर्म स्वाश्रयं 25 42A श्येनं तदाकाशदेशाद् वियोज्य स्थाण्याकाशदेशेन संयोजयति ततो वा विभज्याकाश
१ आकाशोऽपि सदेशः ॥ २ सकृत् सर्वमूर्ताभिसम्बन्धात्वात् ॥ ३ सम्बद्धत्वादेव ॥ . अन्यथा सर्वावगाहिनामेकदेशत्वम् ।। ५ श्येने ॥ ६ गत्यादिकम् ॥ ७ पूर्वसम्बदाकाश ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org