________________
स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 'अन्यथेति । यदि जीवादीनां सदेशत्वं नेष्यते तदाऽणोरिख परमाणोरिव तत् सकृत्सर्वमूर्ताभिसम्बन्धाहत्वं न स्यात् । यद् द्रव्यांश निरंशं न तत् सकृत्सर्वमूर्ता394 भिसम्बन्धाहं यथा परमाणुः, जीवादयश्च सकृत्सर्वमूर्ताभिसम्बिधार्हास्तस्माद सदेशा एव ।
मुख्यप्रदेशाभावादुपचरिता एव जीवादीनां प्रदेशा इति चेत् । नन्वयमुपचारो 5 विचारचणानां विपश्चितां निनिवन्धनो वक्तं न युक्तः । काण्डपटादौ सप्रदेशत्वं एवं संकृत्सर्वमूर्ताभिसम्बन्धाहत्वं दृष्टं मनिवन्धन मिति चेत् । ननु यदि काण्डपटदृष्टान्तेनैव सकृत्सर्वमूर्ताभिसम्बन्धाहत्वं जीवादीनां निरंपचरितानामेव प्रदेशानां
निबन्धनं भवेत्तदा किं भवतां करतलाद् यायात् ? यदि जीवादीनामुपचरिताः प्रदेशाः 39B स्युस्तदा कथमिव मुख्यप्रदेशसाध्या सकृत्सर्वमूर्ताभिसम्बन्धाहत्यक्रियां कुर्युः ? न 10
हि प्रकाशकत्वेनोपचरिततपनत्वः सुधादीधितिस्तपति । अथोपचरिता अपि मुख्यक्रियानिबन्धनं भवन्ति तदा काण्डपटेऽपि प्रदेशा उपचरिता एव स्युः । अथ क्वचिद् मुख्यत्वे सत्युपचारोऽन्यत्र प्रवर्तत इति मतम् , तदा जीवादिषु मुख्याः प्रदेशाः काण्डपटादौ पुनरूपचरिता इत्यपि प्रामोति, सकृदनेकमूर्ताभिसम्बन्धाहत्व
स्योभयत्राप्यविशेषात् । तस्मात् सकृदनेकमूर्ताभिसम्बन्धाहत्वाजीवादीनां काण्डपटा- 15 40A दीनामिव मुख्यप्रदेशवचम् ।।
ननु यत् सावयवं तत् पटादिबदनित्यम् , सावयवाश्च जीवादयः, तथा च तेऽप्यनित्या एव स्युरिति । अत्राह-संदेशत्वेन सावयवत्वेन कथञ्चिन्न सर्वथाऽनित्यत्वमपि जीवादीनामस्माकं सम्मतम् । वयं हि मन्यामहे सर्वद्रव्याणां कथञ्चिदनित्यत्वम् । ततः सप्रदेशत्वेन जीवादीनामनित्यत्वप्रसङ्गो न नः सिद्धान्तक्षतिकरः । 20
तदेवं जीवादीनां सदेशत्वं प्रसाध्य देशसङ्ख्यामाह-देशाश्चासङ्ख्येयाः । एकजीवधर्मा-ऽधर्माः सदेशाः, देशाः पुनस्तेषां प्रत्येकमसङ्ख्यया भवन्ति । लोकाकाशव्याप्तियोग्यत्वात् । जीवादयो हि परिपूर्णमपि लोकाकाशं युगपदात्मना व्याप्तुमीशते,
लोकाकाशं च पुरः प्रतिपादयिष्यमाणन्यायादसङ्खयेयप्रदेशम् , अतस्तेऽपि तथैव, 40B असङ्खयेयप्रदेशस्य सङ्खयेयप्रदेशाप्तुमशक्यत्वात् , न हि परमाणुर्विशालां शिला 25
स्थगयितुमलम् । १ अन्यथाऽणोरिव तन्त्र स्यात् ।। २ भावांशव्यवच्छित्त्यै ।। ३ परो जीवादिषु उपचारस्य निबन्धनं दर्शयितुमाह-काण्डपटादी प्रतिसीरादौ ॥ ४ '७' [सप्तम्यन्तम् ] ॥ ५ सति ॥ ६ जीवादिष्वपि सकृत्सर्पमूर्ताभिसम्बन्धाहत्वमेव सप्रदेशस्वोपचारस्य निबन्धनमस्त्वित्यर्थः ॥ ७ काण्डपटादि प्रति सम्भवढ्यापेक्षया सर्वशन्दो व्याख्येयः ॥ ८ उपचारस्य ।। ९ जीवादीनां ये निरुपचरिता: प्रदेशास्तेषां निबन्धनं यदि 30 भवेदिति ॥ १० अधिकम् ।। ११ सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org