________________
आकाशास्तिकायसाधनम् । 'येयमित्यादि । येयमिति प्रत्यक्षनिर्देशः । जीवपुद्गलद्रव्याणां या इयं गतिः स्थितिर्वा प्रत्यक्षतो दृश्यते धर्माधर्मकृते ते इत्युत्तरेण योगः । अन्यकारणायोगादन्यस्य क्षित्यादः कारणस्य पूर्वप्रपश्चितन्यायेनाघटनात् । अवगाहो व्योमहेतुस्त्विति । तुशब्दस्य व्यवहितः सम्बन्धः । द्रव्याणामवगाहः पुनर्योमहेतुराकाशकारणकोऽन्यकारणायोगादेव ।
कायः प्रदेशबाहुल्यम् । एकजीव-धर्मा-ऽधर्माणां सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात् सदेशत्वम् । अन्यथाऽणोरिव तन्न स्यात् । सदेशत्वेन कथञ्चिदनित्यत्वमप्यभिमतम् । देशाश्चासंख्येयाः,
लोकाकाशव्याप्तियोग्यत्वादिति । 38A तदेवं मूलसूत्रोपात्तं द्रव्यपञ्चकं स्वरूपभेदैग्व्यिाय कायपदं व्याचष्ट-कायः प्रदेश- 10
बाहुल्यम् । कायशब्देन प्रदेशानामवयवानां बाहुल्यं बहुत्वमुच्यते, प्रत्येकं बहुप्रदेशानि जीवादिद्रव्याणि । चीयत इति कायः सङ्घातः । जीवादयः काया इव कायाः । यथा घटादयोऽवयववाहुल्यात् काया इत्युच्यन्ते तथा जीवादयोऽपि, अवयववाहुल्यस्याविशेषात् ।
कथं पुनर्ज्ञायते जीवादिद्रव्याणि सदेशानीति तत्र तावजीव-धर्मा-ऽधर्माणां 15 सदेशत्वं साधयति-'एकेति । एक वस्य धर्मस्याधर्मस्य च सकृदेककालं सर्वैर्मर्तव्यै
योऽभिसम्बन्धस्तत्राऽर्हत्वाद्योग्यत्वात् सदेशत्वं सावयवत्वम् । निष्प्रदेशत्वेऽपि नानाजीवैः 38B सकृत्सर्वमूर्ताभिसम्बन्धो भवेदित्येकविशेषणम् । एकस्य जीवस्य सकृत्सर्वमूर्ता
भिसम्बन्धाहत्वादित्यर्थः । जीवानां समुद्घातकाल एव सकृत्सर्वमूर्ताभिसम्बन्धो न सर्वदेत्यर्हग्रहणम् , कायमात्रप्रमाणावस्थायामपि लोकपूरणयोग्यताया विद्यमानत्वात् । 20 तथाहि-एको जीवो धर्मास्तिकायोऽधर्मास्तिकायश्च युगपदखिलैमूर्तद्रव्यैरमिसम्बध्यते । यदि च निरंशः स्यात् तदा कथमेतत् सङ्गच्छेत, एकदेशस्थेनाभिसम्बद्धानामत्यन्तसानिध्यप्रसङ्गात् । तस्मात् सकृत्सर्वमूर्तद्रव्याभिसम्बन्धार्हत्वान्यथानुपपन्या जीवादीनां सदेशत्वमेव ।
१ येयं गतिः स्थितिर्धा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ।। 25 इति समाहश्लोकः ॥ २ संघाताः ।। ३ संघातरूपत्वात् ।। ४ एकजीवधर्माधर्माणां सकृत् सर्वमूर्ताभिसम्बन्धाहत्वात् सदेशत्वम ॥ ५ निष्प्रदेशत्वेऽपि जीवस्याङ्गीक्रियमाणे इत्यर्थः ॥ ६ देहमात्र ॥ ७ जीवादिना[s]ध्यापकेन ।। ८ वस्तूनाम् ॥ ९ एकरवप्रसङ्गात् ।। १० कुतः १ अंशाभावेन दूरादिव्यपदेशाघटनात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org