________________
स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे प्रेतिलाया अनुमानबाधेति । तन्न । एकद्रव्येणाकाशेन व्यभिचारात् । अस्य च 36B नानाप्रदेशत्वं पुरतः प्रसाधयिष्याम इति नानुमानवाधिता प्रतिज्ञा । अमुना च
योगेन नाकाशस्यैकद्रव्यत्वं साध्यते विप्रतिपच्यभावात् , किं तर्हि ? धर्माधर्मयोरेव । यत् पुनस्तस्यापि प्रतिज्ञासूत्रे उपादानं तत् स्वरूपमात्रकथनपरमेव । एवमुत्तरयोगेऽपि ।
एकद्रव्यत्वसिद्धथै हेत्वन्तरमप्याह-अचेतनानां सदापि चेतनासम्बन्धरहितानां 5 सतां धर्मादीनाममूर्त्तद्रव्यत्वेन वाऽमूर्तद्रव्यत्वाद्वा हेतोरेकैद्रव्यत्वम् । यत् सर्वदापि चेतनासम्बन्धशून्यत्वे सत्यमृतं द्रव्यं तदेकद्रव्यमेव यथाकाशम् , धर्माधर्मास्तिकायौ च सर्वदाऽप्येवंभूतावेव । अमूर्तद्रव्यत्वमात्मनामप्यस्तीत्यचेतनानामिति कृतम् । ननु
मुक्तात्मनामपि चेतनाराहित्यं परेषां मतेनास्ति तत् कथं न व्यभिचार इति । 37A तन । कालत्रयेऽपि चेतनाशून्यत्वस्य विवक्षितत्वात् , मुक्तात्मनां च संसार्यवस्थायां 10
लब्धचेतनासम्बन्धत्वात् । अचेतनत्वादित्येतावत्युच्यमाने पुद्गलेव्यभिचारः स्यादित्यमूर्तद्रव्यत्वादित्युक्तम् ।
अमूर्त्तत्वं त्वपुद्गलरूपत्वादिति । अमूर्त्तत्वं तु धर्मादीनाममूर्तत्वं पुनरपुद्गलरूपत्वात् पुद्गलस्वभावत्वाभावात् । यत् पुद्गलस्वभावं न भवति तदमूर्तमेव यथात्मा । अपगलत्वं च धर्मादीनां स्पर्श-रस-गन्ध-वर्णानां पुद्गललक्षणानामभावात् । न 15 चाश्रयसिद्धो हेतुः, धर्मादीनां पूर्वमेव साधितत्वादाकाशे विप्रतिपन्यभावाच्च ।
एकद्रव्यत्वेऽमूर्तत्वे च धर्मादीनां सिद्धे वैभवमपि समसैल्सीत् , अचेतनामूर्तकद्रव्यस्य 378 वैभवनान्तरीयकत्वात् 'इति'करणो जीवादिद्रव्याणां परस्पगसाधारणस्वरूपवक्तव्यतापरिसमाप्त्यवद्योतकः ।
सम्प्रति पूर्वोदितमर्थ सङ्केपेण सङ्ग्रह्णातियेयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ।।
इति सङ्ग्रहश्लोकः । १ 'यदकम्प सर्वत्र तुल्यकार्य तदेकव्यक्ति एव' इत्येवंरूपायाः ।। २ एकद्रव्यस्वरूपायाः ।। ३ व्याप्तिर्हि उभयसिदा भवति, अस्मदीये हि मते आकाशं नानाप्रदेश च एकद्रव्यं चेति हेतोर्व्यभिचारः ॥ ४ धर्मादीना- 25 मेकद्रव्यत्वलक्षणा ॥२ सत्रेण ॥ आकाशस्य ॥ ७ अचेतनानाममर्तद्रव्यत्वेन वा ॥ ८ ध्यासितानि धर्मादीनि एकद्रव्याणि, सर्वदापि अचेतनत्वे सति अमूर्तद्रव्यत्वात् || ९ नैयायिकादीनाम् ।। १० हेतोः ॥ ११ अत एव सर्वदेति कृतमनुमाने ।। १२ सदापि अचेतनरवे सति अमूर्तद्रव्यत्वात् ।।
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org