________________
आकाशास्तिकायसाधनम् । तदेवं धर्मा-ऽधर्मा-ऽऽकाशानां लक्षणमभिधाय त्रयाणामप्येकं धर्ममभिदधाति--
धर्मादीनि एकद्रव्याणि, अक्रियाणां सर्वत्र एककार्योपलम्भात् , अचेतनानाममूर्तद्रव्यत्वेन वा । अमूर्तत्वं त्वपुद्गलरूपत्वादिति ।
धर्मादीन्येकद्रव्याणि । मूलसूत्रोपात्तद्रव्यपञ्चकमध्याद्धर्मादीनि धर्मास्तिकाया- 5 ऽधर्मास्तिकाया-ऽऽकाशास्तिकायद्रव्याण्येकव्यक्तिकानि । धर्मादयः प्रत्येकमेकव्यक्तिका न पुनर्जीव-पुद्गलद्रव्यवदनेकव्यक्तिका इत्यर्थः । एकशब्दः सङ्ख्यावचनः,
तत्सम्बन्धाद् द्रव्यस्यैकवचनप्रसङ्गे इति चेत् , न, धर्माद्यपेक्षया बहुत्वघटनात् । एक 358 च तद् द्रव्यं चैकद्रव्यम् , एकद्रव्यं चैकद्रव्यं चैकद्रव्यं चैकद्रव्याणीति धर्माद्यपेक्षया
वहुत्वं न विरुध्यते । प्रस्तावाद् द्रव्यावगमाल्लाघवाच्च 'एकैकम्' इत्येवास्त्विति चेत्, 10 न, द्रव्यशब्दस्य द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् पर्यायापेक्षया ह्यनेकत्वाभ्यनुज्ञानात् । धर्मादीनीत्यभिधानाजीव-पुद्गलानामनेकद्रव्यत्वमेव, अन्यथा जीवादीनीत्यभिदधीत।
___ कथं पुनरेकद्रव्यत्वममीषामिति । उच्यते-अक्रियाणां गमनक्रियारहितानां सर्वत्र देशे काले चैककार्योपलम्भादेकस्य तुल्यस्य कार्यस्य गतेः स्थितेरवगाहस्य च 36A दर्शनात् । धर्मा-ऽधर्मा-ऽऽकाशानां हि सर्वत्रकमेव कार्य गति-स्थित्यवगाहदातृत्वलक्षणं 15
दृश्यते । अथ चैतानि गमनक्रियाशून्यानि देशाद् देशान्तरं गन्तुं न शक्नुवन्ति, तस्मादेकद्रव्याण्येव । अयमर्थः-यदकैम्पं सर्वत्र तुल्यकार्य तदेकव्यक्त्येव, यथाकाशम् । समानजातीयाः पुद्गलव्यक्तय ऐककार्या भवन्ति न पुनरेकगव्याणि इत्यक्रियाणामित्युक्तम् । ता हि गमनक्रियावत्यः । तथा मुक्तिक्षेत्रमधिष्ठिता अप्यात्मानो गतिशून्या भवन्ति, न पुनरेकद्रव्याणि, इत्येककार्योपलम्भादित्युक्तम् । न हि तेषां 20 सर्वत्रकं कार्य किञ्चिदप्युपलभ्यते ।
स्यादेवम्-नानाप्रदेशत्वौद्धर्मादिद्रव्याणां धरौंदिवानाद्रव्यत्वम् । तथा च १ कथम् 'एकद्रयाणि' इत्युक्तम् ॥ २ 'धर्मादीनि एकैकम्' इत्येव सूत्रमस्तु ॥ ३ 'धर्मादीनि' इति पदप्रतिपादनात् ।। ४ अभियाण सर्थ एककार्योपलम्भात् ॥ ५ अक्रिय सत् ॥ ६ देशे काले वा।। ७ विवादपदानि धर्मादीनि एकव्यक्तिकानि अकम्पानां सतां तुल्यकार्यत्वात् ॥ ८ काश्चित् पुद्गलव्यक्तयो हि 25 एकमचित्तमहास्कन्धलक्षणं सर्वदेशभावि कार्दमारभन्ते, न च ता एकद्रव्याणि ॥ ९ एक कार्य स्कन्धलाणम् ॥ १० देशे काले वा ।। ११ धर्मादीनि नानाध्याणि नानाप्रदेशत्वाद् यथा घटादयः ।। १२ कृष्णपाण्डुरादिभेदेन ज्याया नानाद्रभ्यत्वम् ।। १३ अनेक ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org