________________
स्पोपाटीकासहिते व्रज्यालङ्कारे तृतीये प्रकाशे अलोकोऽन्यः । न सतामात्मादीनामभावोऽनात्मा । गुणादयश्च द्रव्यवृत्तयः । परिशेषाद् द्रव्यमनन्तं नभः ।
अलोकोऽन्य इति । तस्माल्लोकाकाशादन्य आकाशोऽलोकः। यत्राकाशे जीवपुद्गलानां गति-स्थितयो न भवन्त्यसावलोकः । ननु लोकादन्यस्य कस्यचिदप्यभावात् 34A कथमलोको वस्तूच्यत इति । तदत्रालोकस्य वस्तुत्वसाधनाय प्रस्तावनामाह-'नेति, 5
न तावत् सतां वस्तुभूतानामात्मादीनामात्मप्रभृतीनां पञ्चानामपि द्रव्याणामभावोऽनात्मा निःस्वभावो युक्तः । आत्मादीनां पञ्चानामपि द्रव्याणामभावस्तावदङ्गीकर्तव्यः । वस्तूनां चाभावो वस्त्वेव भवति, नीरूपस्याभावस्यासम्भवात् । अन्यथा वस्तुनोऽसत्त्वप्रसङ्गः ।
ननु भवत्वात्मादीनां सतामभावो वस्तु, स पुनराकाश एवेति कथम् , गुणादीना- 10 मपि सम्भवादिति । उच्यते-गुणादयश्च द्रव्यवृत्तयः । आदिशब्दात् कर्म-सामान्य परिग्रहः । आत्मादिद्रव्याणामभावो गुण-कर्म-सामान्यादिरूपः कल्पयितुं न शक्यो
गुणादीनां द्रव्यवृत्तित्वात् , द्रव्याभावस्य च विवक्षितत्वात् , आधाराभावे आधेयाना34B मसम्भवात् । यतश्च गुणादयो न सम्भवन्ति जीवादिद्रव्याणां लोकाकाशस्य
चाभावो विचारयितव्यतया प्रस्तुतोऽतः परिशेषादुद्धस्तिन्यायेनात्मादीनामभावो द्रव्यं 15 द्रव्यरूपः सच्चादिगुणपर्यायवच्चात् , तत् पुनरनन्तमन्तरहितं नम आकाशम् । एवं चालोकः परिशेषानुमानादाकाशद्रव्यरूपः सिद्धः ।
ननु यदागमानुमानाभ्यां परिच्छेद्यं सर्वज्ञधीगम्यं च वस्तु तत् सान्तमेव दृष्टं यथा घटादयस्तथाभूतं चालोकाकाशमतः कथमनन्तं स्यादिति । तदयुक्तम् , वेदेश्वरपुरुषाणामपि सान्तत्वप्रसङ्गात् । तेऽपि हि त्वन्मतेनागमादिगम्या भवन्ति न 20 पुनः सान्ताः, कालापेक्षयाऽनन्तत्वात् । प्रमाणस्य हि यथावस्तुपरिच्छेदनस्वभावत्वा
दनन्तस्यानन्तत्वेनैव परिच्छेदनं यद्यसङ्ख्यातादेस्तथात्वपरिच्छेदवत् स्यात् को विरोधः 35A स्यात् ।
१ न सतामात्मादीनामभावोऽनात्मा !! २ परमार्थवृत्त्या । शाब्दिकानां तु शान्दवृत्त्या प्रसज्येऽथे(१) अभावोऽवस्तु । बौगिका अभावा नाभिप्रेता अस्माकं विशेषतो यतोऽत्यन्ताभावोऽपि वस्वेव शशशृङ्गादीनां 25 समवायादिनिषेधात् ॥ ३ अभावस्य नीरूपत्वे सति !! ४ गुणादीनाम् ॥ ५ परिशेषाद् द्रव्यमनन्तं नभः ।। ६ द्रध्यरूपोऽभाव इत्यर्थः ॥ ७ सपर्यन्तम् ॥ ८ यथा आकाशं व्यापकरवेनानन्तं तथा वेदादयो न हि, किन्तु सर्वस्मिन्नपि कालेऽविनश्वरत्वेनानन्ताः ॥ ९ असंख्यातादित्वेन ||
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org