________________
आकाशास्तिकायसाधनम् ।
१५३ 'एकप्रदेशादिषु पुद्गलानामिति, तस्येति परिणामभेदादित्यवगाह इति चानुवर्त्तते । लोकाकाशस्यैकप्रदेशादिषु पुद्गलानाम् अणु-स्कन्धभेदानां परिणामभेदादवगाहो भवति ।
एकश्चासौ प्रदेशश्च स आदियेषां द्वयादिप्रदेशानाम् । तत्र लोकाकाशस्यैकस्मिन् 328 प्रदेशे सङ्ख्थेयेषु प्रदेशेष्वसङ्खयेयेषु च पुद्गलानामवगाहः । यथा हि लोकाकाशस्यैक
प्रदेशे एकस्य परमाणोरवगाहो निर्वाधस्तथा द्वयादिसङ्ख्यासङ्खथेयानन्ताणुस्कन्धानामपि 5 परमसौक्ष्म्यात् । द्वयादिप्रदेशेषु च यथैकत्वपरिणामनिरुत्सुकानां द्वयादिपरमाणूनामवगाहस्तथा व्यादिसङ्खोया-ऽसङ्खधेया-ऽनन्तपरमाणुमयस्कन्धानामपि तादृशसूक्ष्मपरिणामात् ।
एवं व्यादिष्वपि वाच्यम् । न च पुद्गलस्कन्धानां तादृशः सूक्ष्मः परिणामो न सिद्धः, 33A स्थूलानामपि शिथिलावयवकसिपिण्डादीनां निबिडावयवदशायां सौक्षयदर्शनेन
कूष्माण्ड-मातुलुङ्ग-विल्वा-ऽऽमलक-बदर-मुद्ग-सर्पप-केशाग्रेषु सौम्यतारतम्यदर्शनेन च 10 क्वचित् कार्मणस्कन्धादिषु परमसौक्ष्म्यानुमानात् , परममहत्त्वतारतम्यदर्शनात् क्वचित परममहत्त्वानुमानवत् । ततो यदप्युच्यते "यद् बहुप्रदेशं तन्नाल्पक्षेत्रे तिष्ठति, यथा समुद्रोदकं कुम्भक्षेत्रे, बहुप्रदेशाश्वासङ्ख्यातादिप्रदेशाः स्कन्धाः" [ ] इति तदपि न किश्चित् । अनेकप्रदीपंप्रकाशबहुप्रदेशैरल्पप्रदेशापवरकादिक्षेत्रावस्थायिभिव्यभिचारादिति ।
15 धर्मेति । कृत्स्न इति सप्तम्यन्तपैदेसामानाधिकरण्यात् तस्येति पदं षष्ठयन्तमपि सप्तम्यन्तं सदत्रानुवर्ण्यते । तैस्मिल्लीकाकाशे कृत्स्ने निःशेषे धर्माधर्मास्तिकाययोरव33 गाहो भवति । कृत्स्न इति वचनाल्लोकाकाशैकदेश एव धर्माधर्मयोरवगाहो निरस्तः।
न हि लोकत्रयवत्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च युगपद् गति-स्थित्युपग्रहो धर्माधर्मयोरेकदेशवर्तिनोः सम्भवति, अलोकाकाशेऽपि तद्गति- 20 स्थितिप्रसङ्गात् । ततो लोकाकोर्श एव सर्वेषां गच्छतां तिष्ठतां च पदार्थानां गतिस्थिती 'इच्छता धर्मा-ऽधर्मयोः कृत्स्ने लोकाकाशेऽवगाहोऽभ्युपगन्तव्यः ।
१ जीवानामवगाहः कथितः । सम्प्रति पुद्गलानां कथ्यते ॥ २ एकस्य परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहो न तु द्वयादिके प्रदेशे इति तात्पर्यम् || ३ द्वथादयश्च ते प्रदेशाश्च ॥ ४ रहितानाम् ॥ ५ द्वयोः प्रदेशयोद्वर्यादिपरमाण्यवगाहमणनेनेव द्वयणुकस्कन्धस्य चरितार्थत्वात् त्र्यादीत्युक्तम् ॥ ६ व्यादिष्वपि प्रदेशेषु चतुरादि- 25 परमाणुमयस्कन्धानामवगाह इति वाच्यम् , न तु व्यादिपरमाणुमयस्कन्धानाम् , पूर्वोक्तयुक्त्या गतार्थत्वात् ।। ७ अवस्थायाम् ।। ८ कृत्वा ॥ ९ सूक्ष्मपरिमाणतारतम्यं वचिद् विश्रान्त परिमाणतारतम्यत्वात् महत्परिमाणवत् ॥ १०, ११ '६' [-विग्रहे षष्ठयन्तम् ] ॥ १२ धर्माधर्मयोः कृत्स्ने ॥ १३ '३' विग्रहे तृतीयान्तम् ] ॥ १४ लोकस्य ॥ १५ * तस्मिल्लोका इति हस्तलिखिते पाठः ॥ १६ ६' [विग्रहे षष्ठयन्तम् ] || १७ जीवादिपदार्थानाम् ।। १८ '७' [=सप्तम्यन्तम् ] || १९ भवता ॥ २० '६' [-षष्ठयन्तम् ] | 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org |